SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ जैनेन्द्र-व्याकरणम् [म० ३ पा० ४ सू०.१०.१ इत्येष विधिन भवति । "भादौ योक्तपुंस्कं वत्" [५११५३ ] इति निर्देशात् । योगापेक्षं चेदं शापकम् । तेन स्रीवदित्यपि सिद्धम् । योगविभाग उत्तरार्थः । भावे त्वन्तलौ' ॥२४११०॥ तस्येति वर्तते । तासमर्थाद् भावेऽर्थे त्यन्' तल इत्येतो त्यो भवतः । नकारः "सीसान्नुक्त्वात्" [ ३१७२] इत्यत्राऽस्यावधिरूपेण ग्रहणं मा भूत् इत्येवमर्थः । लकारस्तलन्तः स्त्रियामिति विशेषणार्थः । भावः शब्दप्रत्ययप्रवृत्तिकारणम् । तद्यथा भवतोऽस्माच्छुब्दप्रत्ययाविति भावः । उक्तं च "यस्य गुणस्य हि भाषावाव्ये शब्दविनिवेश:, तदभिधाने स्वतको [पा० महा० ५/११९] इति । इह गुण इति विशेषणमात्रम्, द्रव्यमिति विशेष्यमात्रम् इष्टम् । श्रश्वस्य भावः, अश्वत्वम् । अश्वता । शुक्लत्वम् । शुक्लता। अत्र जातिगुणयोरभिधाने त्वन्तलो। सम्बन्धस्तु गम्यो नाभिधेयः । इह पाचकत्वमिति क्रियाऽभिधाने । अथवा सम्बन्धप्रधानाः । सम्बन्धे चाभिधेये त्वन्तलौ । कारकत्वम् । श्रोपगवत्वम् । राजपुरुषत्वमिति । एतेऽपि ये जातिगुणशब्दाः, तेभ्यो जातिगुणस्य चाभिधाने । कुम्भकारत्वम् । हस्तित्वम् । राजवृतत्वम् । ये गुणमात्रवचना रूपं रसो गन्ध इति, तेभ्यः सामान्याभिधाने रूपत्वम् , रसत्वम् । उपचारशब्देषूपचारनिमित्तेऽभिधेये गोत्वं वाहीकस्य । अग्नित्वं माणवकस्य । पृथक्त्वं नानात्वमित्येवमादौ असत्त्वभूतत्वेऽपि शब्दान्तरेण तासमर्थता पृथगित्यस्य भाव इति । यदृच्छाशन्देषु डित्यादिषु संज्ञासम्बन्धामिधाने सर्वावस्थाव्याप्याकृतिसामान्याभिधाने च डिस्थत्वम् । उत्क्षेपणादिषु सामान्येऽभिधेये उत्क्षेपणत्वम् । आ च त्वात् ॥३।४।११२॥ वक्ष्यति "ब्रह्मणस्पः" [२४/१२६ ] इति । प्रा एतस्मात् त्व संशब्दनाद्यदित ऊर्ध्वमनुक्रमिष्यामस्त्वन्तलो तत्राऽधिकृतौ वेदितव्यौ। अपवादविषये समावेशार्थ कर्मणि च विधानार्थमेव तावधिक्रियेते । वक्ष्यति "पृथ्वादेमन्[३२११२] प्रथिमा। पृथुता। ननु वावचनात् त्वन्तलौ स्वयमेव भविप्यतः १ नैतदेवम्, "ल्यादेरिकः" [११२१] इत्येवमादिसमावेशार्थ तद् वावचनम् । चकारकरण किमर्थम् ? "स्त्रीपुंसान्नुक्त्वात्" [११७२] इत्यस्मिन्नाप विषये प्रापणार्थम् । स्त्रीत्वम् । स्त्रीता। पुंस्त्वम् । पुंस्ता । प्राक्त्वादिति मर्यादाकरणसामर्थ्यादपि सिद्धः । स्त्रिया मावः स्त्रैणम् । पौंस्नम् । पृथ्वादेर्वमन् ॥३।४।११२॥ पृथु इत्येवमादिभ्यो वा इमन् भवति तस्य भाव इत्यस्मिन्विषये । वावचनं यादेरिकः" [३।१११२१] इत्यस्याणः, गुणवचनेभ्यष्ट्यणः, वयोवाचिभ्यस्त्वाः समावेशार्थम् । पृथोर्भावः, प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता । पृथु । मृदु । महि । पटु । तनु । लघु । बहु । बासु । ऊरू । बहुल । दण्ड । खण्ड । चण्ड । अकिञ्चन । बाल । होड । पाक । वत्स । मन्द । स्वादु । ऋजु । वृष । हस्व । दीर्घ | क्षिप्र । तुद्र । प्रिय । वर्णदृढादेष्टयण च ॥३।४।११।। वर्णशब्देन वर्णविशेषा गुणोपसर्जने द्रव्ये ये वर्तन्ते, तेषामिह ग्रहणम् । तादृशैरेव दृढादिभिर्गुणवचनैः साहचर्याद् वर्णविशेषवाचिभ्यो दृढादि यश्च ट्यण भवति संवा तस्य भाव इत्यस्मिन्विषये । शुक्लस्य भावः शौक्ल्यम् , शुक्लिमा, शुक्लखम् , शुक्लता । कार्यम् । कृष्णिमा । शैत्यम् । शितिमा, शितित्वम् । विभाषाऽनुकर्षणादन( ण )पि भवति । शैतम् । दृढादिभ्यः । दृढस्य भावः, दार्यम् , द्रढिमा, दृढत्वम्, दृढता । दृढशब्दस्य तुन्धादिषु अनिट्त्वं ढखं च निपात्यते । दृद्ध । बर। परिवृढ । कृश । भृश । चुक्र । अम्ल । लवण । "वेर्यातकातरसमतिमन:शारवानाम्" 1. स्वत्तलौ म०, पू० । २. स्वत् अ०, पू० । ३. -ब्दनिवेशः पा• महा० । ५. त्वतको पा. महा० । स्वत्तको घ० पू०।५. स्वत्तली म०, पूछ। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy