SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भ० ३ पा० ४ सू० १०४ - १०६ ] महावृत्तिसहितम् २३३ तुमिति वाक्ये एक शब्दाण्यागारिकडित्ययं त्यो निपात्यते । ऐकागारिकचौरः । ऐकागारिकी चौरी । समान कालशब्दादाद्यन्तोपाधिविशिष्ट । दस्येति ताऽर्थे इकनिपात्यते समानकालस्य च श्राकाल श्रादेशः । समानकालवाद्यन्तावस्य श्राकालिकः स्तनयित्नुः । श्राकालिकी विद्युत् । यस्तु प्रादिलक्षणे से श्राकाल इष्टः । श्रावृत्तः काल ईषत्कालो वा ाकाल इति । तस्मात् ठञ् च ठश्चेष्यते । श्राकालिकी नाकालिका विद्युत् । Acharya Shri Kailassagarsuri Gyanmandir छोऽनुप्रवचनादेः || ३ | ४ | १०४|| तदस्य प्रयोजनमिति वर्तते । अनुप्रवचनादिभ्यश्छो भवति । ठञोऽपवादः । श्रनुप्रवचनं प्रयोजनमस्य, अनुप्रवचनीयम् । श्रनुप्रवचन । उत्थापन । उपस्थान । संवेशन । प्रवेशन | अनुवाचन | अनुवचन । अनुपान | अनुवादन | अनुवासन । श्रन्वारोहण । प्रारोहण । श्रारोहण । श्राभरण | "विशिपूरिपादिरुहिप्रकृतेरनारख पूर्वपदादुपसंख्यानम्" [ वा० ]। गृहप्रवेशनीयम् । प्रपापूरणीयम् । श्रश्वप्रपदनीयम् । प्रासादरोहणीयम् । एतस्मिंश्च वक्तव्ये सति यानि गणे विश्यादिप्रकृतीत्यनान्तानि पठ्यन्ते तेषां पाठोऽनर्थकः प्रपञ्चाऽर्थो वा । समापनात्सादेः ||३|४|१०५ ॥ तदस्य प्रयोजनमिति वर्तते । समापनशब्दात्सादेशको भवति । ठञोऽपवादः । जैनेन्द्रसमापनं प्रयोजनमस्य जैनेन्द्र समापनीयम् । तर्कसमापनीयम् । "स्वर्गादिभ्यो यो travr: " [ वा० ] | स्वर्गः प्रयोजनमस्य स्वर्ग्यम् । वन्यम् | यशस्यम् । श्रायुष्यम् । काम्यम् | "पुण्याहवाचनादिभ्य उच्च व्य:" [ वा० ] | पुण्याहवाचनं प्रयोजनमस्य पुण्याहवाचनम् । शान्तिवाचनम् । स्वस्तिबाचनम् । श्रक्षतपात्रम् । नेदं वक्तव्यम् । तादर्थ्यात्ताच्छन्द्यं भविष्यति । श्रनभिधानाट्ठञ् भवति । "श्रद्धादिभ्योऽय् वक्तव्य:' [ बा० ] | श्रद्धा प्रयोजनमस्य श्राद्धम् | चूडा प्रयोजनमस्य चौडम् । तवत् ॥ ३४.१०६ ॥ श्रतीत्यर्हः तदितीप्समर्थाद् श्रतीत्यर्थे वद् भवति । राजानम राजानं ( राजवद् ) वृत्तम् । कुलीनवत् । इह कस्मान्न भवति शतमर्हति देवदत्तः । राजानमर्हति मणिः । उत्तरत्र क्रियाग्रहणं गुणभूतमपि सिंहावलोकनेन सम्बध्यते तेन क्रिया यत्रार्हतैः कर्तृत्वेन विवक्षिता तत्राऽयं विधिः । तेन क्रिया तुल्ये || ३ | ४|१०७॥ वदिति वर्तते । क्रिया तुल्या श्रस्य क्रियातुल्यम् । इच्छातो विशेषणविशेष्यभाव इति क्रियाशब्दस्य पूर्वनिपातः । तेनेति भासमर्थात्क्रियातुल्येऽर्थे वद् भवति । क्षत्रियेण तुल्यं युध्यते क्षत्रियवद्युध्यते । "भातुलोपमाय तुल्यार्थै:" [ १।४।७६ ] इति भा । शिष्येण तुल्यं वर्तते, शिष्यवद् वर्तते । श्रश्ववद्धावति । साधुवद् ब्रूते । इह कस्मान्न भवति । तैलपाकेन तुल्योऽष्टत पाक इति ? इह सूत्रे वर्थः (द्वर्था ) क्रिया सा च साध्या पूर्वापरीभूताऽवयवा श्रसाध्यभूता' च । घञाद्यन्तेन पुनर्व(द्वय) सव (ध) म्र्मः सिद्ध तालक्षणो द्रव्यभूत उच्यते इति नास्ति प्राप्तिः । यदि घञाद्यन्तेन क्रिया नामिधीयते कथं भोक्तुं पाकः भोजकस्य पाकः इति १ नैष दोषः ? " तु यादि ( वुण्तुमादि ) " [ २३८ ] सूत्रे घञाद्यन्तायाः प्रकृतैरर्थः क्रियाऽऽश्रीयते । क्रियाग्रहणं किमर्थम् १ ब्राह्मणेन तुल्यः पिङ्गलः । गुणतुल्ये मा भूत् । तत्रेव || ३ | ४|१०८ ॥ तत्रेतीप्समर्थात् इवार्थे वद् भवति । मथुरायामिव मथुरावत् स्रुध्ने प्रासादाः । मथुरावद् रमणीयता । मथुरावद् वर्षति । तस्य ||३|४|१०९ || इवशब्दोऽनुवर्तते । तस्येति तासमर्थादिवार्थे वद् भवति । देवदत्तस्य इव देवदत्तस्य वनम् । राज्ञ इव राजबद् देवदत्तस्याश्वाः । वव्प्रकरणे "स्त्रीपुंसान्नुकूत्वात्” [ ३०११७२] १. "असत्वभूताश्च" इत्यपि पाठः । २. प्रतुमादि पू० । ३० For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy