SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १२४ जैनेन्द्र-व्याकरणम् प्रे वणिजाम् ||२|३२|४८ ॥ वेति वर्तत । प्रशब्दे वाचि ग्रहेर्वा घञ सम्बन्धि चेद्भवति । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण चरति । तुलासूत्रं वणिजामिति किम् ? प्रग्रहो देवदत्तस्य । Acharya Shri Kailassagarsuri Gyanmandir [अ० २प१० ३ सू० ४८-५१ भवति समुदायेनाभिधेयं वणिजां गृहीत्वा वणिक् चेष्टते इत्यर्थः । रश्मी ||२३|४६ ॥ प्र इति वेति च वर्तते । इह रश्मिशब्देन श्रश्वादिसंयमनरज्जुरेव गृह्यते । प्रशब्दे वाचि हे घञ भवति समुदायेन रश्मावभिधेयायाम् । प्रगृह्यते इति प्रग्राहः । प्रग्रहः । छादने वृञः || २|३|५० ॥ वेति वर्तते प्र इति च । प्रपूर्वाद्व गोर्वा घञ भवति श्राच्छादनविशेषे वाच्ये । प्रवृणोति तं प्रावारः । प्रवरः । आच्छादन इति किम् ? प्रवरः । परौ भुवोऽवज्ञाने || २|३|५१ || वेति वर्तते । श्रवज्ञानमवक्षेपः परिपूर्वाद्भू इत्येतस्माद्वा घञ भवति श्रवज्ञाने वाच्ये । परिभावः । परिभवः । श्रवज्ञान इति किम् १ सर्वतो भवः परिभवः । खुग्रहवृदृगमोऽच् ||२|३|५२ || भावे कर्तरीत्येवानुवर्तते । इवर्णान्तात् उवर्णान्तात् ऋवर्णान्तात् ग्रह वृ ष्ट गभि इत्येतेभ्यः वाजित्ययं त्यो भवति । घञोऽपवादोऽयम् । चयः । जयः । रयः । रवः । लवः । करः । गरः । शरः । ग्रहः । वरः । आदरः । गमः । चकारः “ व्यजोऽधन चोः [१|४|१२८ ] इत्यत्र विशेषणार्थः । “अज्विधौ भयादीनामुपसंख्यानं नपुंसके कादिनिवृत्यर्थम् " [वा ] भयम् । वर्षम् । “रणवशिभ्यामज्वक्तव्यः” [वा०] रणः । वशः । “घञर्थे कविधानं स्थास्नापाव्यविहनियुध्यर्थं कर्तव्यम्" [वा०] प्रतिष्ठतेऽस्मिन् प्रस्थः । प्रस्नात्यस्मिन् प्रस्नः । प्रपिवन्त्यस्यां प्रपा । श्राविध्यन्त्यनेन श्राविधम् । निहन्यते ऽनेनास्मिन्वा विघ्नः । श्रायुध्यन्तेऽनेनेति श्रायुधम् । गावदः || २|३|५३ || गिपूर्वाद् देरज् भवति । प्रादनं प्रघसः । विधसः । संघसः । “घस्लृलुङ्घञ्सनक्षु" [9181१११] इति प्रदेर्भलादेशः । गाविति किम् ? घासः । श्रस्मिन् प्रकरणे यत्रेपा गिर्निर्दिश्यते तत्र वाग्लक्षणः प्रादिलक्षणो वा सविधिः । नौ णश्च ||२|३ ५४ ॥ निपूर्वाददेर्णो भवति च । न्यादः । निघसः । पणः परिमाणे ||२|३|१५|| परोर्घञि ये वा नास्ति विशेषः इत्यारम्भसामर्थ्यादच एवानुवृत्तिः । षणः परिमाणे गम्यमाने श्रन् भवति । पण्यत इति परणः मूलकपणः । शाकपणः । 'परिमाणाख्यायां सर्वेभ्यः ' [२२३|११] इति घञ् प्राप्तः । परिमाण इति किम् ? पाणः । पशुध्वजः समुदोः ||२|३|५६|| सम उद् इत्येतयोर्वाचोरजेर्धीरज भवति पशुविषये । समजः । पशूनां समुदाय इत्यर्थः । उदजः । पशुनाममुञ्चालनमित्यर्थः । पशुष्विति किम् ? समाजः साधूनाम् । उदाजः शकुनीनाम् । "चजो: कुधिण्ण्यतोस्तेऽनिट: " [५/२/२६] कुत्वं विधीयते प्रजेस्तु वीभावेन भवितव्यमि - त्यत्वाद् विशेषणं नास्तीति कुत्वं न भवति । ग्लहोऽक्षे || २|३|२७|| ग्लह ग्रहणे इत्यस्मादज भवति श्रक्षविषये । श्रक्षेषु ग्लहः । श्रक्ष इति किम् ? ग्लाहः । प्रजने सुः || २|३|१८|| प्रजनो गर्भाधानम् । प्रजनविषये सृ इत्येतस्मादज् भवति । गवामुपसरः । गर्भाधानाय स्त्रीraig वृषाणामुपसरणमित्यर्थः । एवं पशूनामुपसरः । प्रजन इति किम् ? उपसारो भृत्यै राज्ञाम् । For Private And Personal Use Only हो जिश्च व्यभ्युपविषु ||२|३|५९ || नि अभि उप वि इत्येतेषु वातु हूयतैानर्भवत्यश । निह्नवः । श्रभिवः । उपहवः । विहवः । हुरादेशो वक्तव्य इति चेत् इह निजोहरः इति यङुबन्तस्य सचस्य प्रसज्येत । एतैष्विति किम् ? संहायः ।
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy