________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्र० २ पा० ३ सू० ३६-४७ ]
महावृत्तिसहितम्
१२३
घञ
न्यायपरिणाय पर्यायः || २ | ३ | ३६ || न्यायादयः शब्दाः निपात्यन्ते । निपूर्वादिणः निपात्यते । भ्रेषो युक्तकरणमकुत्ता वा । एषोऽत्र न्यायः । भ्रेष इति किम् ? न्ययं गतश्चौरः । परिपूर्वात् नयतेविषये घञ निपात्यते । परिणायेन सारान् हन्ति । धूतविषयादन्यत्र परिणयः परिपूर्वादिणः श्रनुपात्यये गम्यमाने निपात्यते । श्रनुपात्ययः क्रमप्राप्तस्यानतिवृत्तिः । तव पर्यायो भोक्नुम् । मम पर्यायो भोक्तुम् । प्रनुपात्यय इति किम् ? स्वाध्यायकालस्य पर्य्ययः । श्रतिक्रम इत्यर्थः ।
Acharya Shri Kailassagarsuri Gyanmandir
व्युपे शीङो ऽन्त्ये || २|३|३७|| अन्त्य इति पूर्वसूत्रे विन्यासापेक्षया पर्यायोऽभिप्रेतः । वि उप 'इत्येतयोर्वाचोः शीङो घत्र भवति पर्याये गये । तव विशायो मम विशायः । तव राजोपशायः । मम राजोपशायः । राजानमुपशाययितुमवसर इत्यर्थः । अन्त्य इति किम् ? विशयः । उपशयः ।
हस्तादाने चेरस्तेये || २|३|३८|| हस्तादाने गम्यमाने चिनोतेर्धं भवति न चेत्स्तेयं भवति । पुष्पप्रचायः । फलप्रच्चायः । हस्तादानशब्देन निकटस्य गुच्छादेर्ग्रहणं लक्ष्यते । हस्तादान इति किम् ? पुष्पप्रचयः । अस्तेय इति किम् ? पुष्पप्रचयं करोति चौर्येण ।
निवासचितिशरीरोप समाधाने चः कः ॥२॥३॥३६॥ चेरिति वर्तते । निवास चिति शरीर उपसमाधान इत्येतेष्वर्थेषु चिनोतेर्घञ भवति चकारस्य च ककारः । निवासे - साधुनिकायः । उत्कृष्टनिकायः । श्रधिकरणे घञ् । चीयतेऽसौ चितिः । यज्ञे श्रग्निविशेषः । कायमग्निं चिन्वीत । शरीरे चीयते इति कायः । उपसमाधानमुपर्युपरि राशीकरणम् । महान् गोमयनिकायः । उपर्युपरीति विशेषणादिह न भवति । महान् काष्ठनिचयः । एतेष्विति किम् ? चेयः ।
संघेऽनूर्ध्वं ||२३|४०|| संघः प्राणिविशेषसमुदायः । श्रनूर्ध्वे संघे वाच्ये चिनोतेर्घञ भवति चकारस्य चकत्वम् । निचीयते इति निकायः । साधुनिकाथः । पण्डितनिकायः । प्राणिविशेषस्य सङ्घस्य ग्रहणादिह न भवति । काष्ठचयः । पदसमुच्चयः । विशेषग्रहणं किम् ? प्राणिसमुच्चयः । सामान्येन समुदायोऽयम् । नूर्ध्व इति किम् ? उपर्युपरि सूकरनिचयः ।
कोशेऽवन्यो हः || २|३|४९ ॥ श्राक्रोशः शपनम् | श्रवनि इत्येतयोर्वाचो हेर्घञ भवति श्राक्रोशे गम्ये । श्रवग्राहो ह ते वृषल भूयात् । निग्राहो ह ते वृषल भूयात् । आक्रोश इति किम् ? अवग्रहः पदस्य | निग्रहो दुष्टस्य |
लिप्सायाम् || २|३ | ४२ ॥ प्रशब्दे वाचि लिप्सायां गम्यमानायां ग्रहेधेन भवति । प्रग्राहेण चरति भिक्षुः । पात्रं प्रगृह्य अन्नं लिप्सुर्भ्रमतीत्यर्थः । लिप्सायामिति किम् ? प्रग्रहो देवदत्तस्य राज्ञा ।
परौ यज्ञे ||२|३|४३|| परिपूर्वाग्रहेर्घञ भवति यज्ञविषये । उत्तरः परिग्राहः । यज्ञ इति किम् ? परिग्रहो देवदत्तस्य ।
ܢ
नौ वर्धा ||२| ३ | ४४ || निशब्दे वाचि वृ इत्येतस्मात् घञ भवति धान्यविशेषे वाच्ये । इति वृङ्ङ्कृञोर्ग्रहणम् । नीवारा नाम त्रीहयो भवन्ति । धान्य इति किम् ? निम्रियत इति निवरा कन्या ।
उदि पूत्र, यौतिथिनः ॥२|३|४५ || उत्पूर्वेभ्यः पू द्रु यौति श्रिञ इत्येतेभ्यो घञ् भवति ।
"
उत्पावः । उद्भावः । उद्यावः । उच्छ्रायः ।
वाङि रुप्लुवोः ||२|३|४६ ॥ श्राङपूर्वाभ्यां रुलु इत्येताभ्यां वा घञ भवति । श्रवः । आरवः । “गौरुवः” [ २।३।२१ ] इति नित्यं घञ् प्राप्तः । श्राप्तावः । श्राप्लवः ।
प्रहोऽवे वर्ष प्रतिबन्धे ॥२|३|४७॥ वेति वर्त्तते । श्रवशब्दे वाचि ग्रहेर्वा घञ वाच्ये । श्रवग्राहो देवस्य । श्रवग्रहो देवस्य । वर्षप्रतिबन्ध इति किम् ? अवग्रहः पदस्य |
For Private And Personal Use Only
भवति वर्ष प्रतिबन्धे