SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० । पा० ४ सू० ८१-८५] महावृत्तिसहितम् कारस्य खम् । क्यजन्तस्य उश्च त्यः । अध्वर्युक्रतुरनपुंसकलिङ्गो द्वन्द्व मेकवद्भवति । येषां ऋतूनां यजुर्वेदशाखासु लक्षणं प्रयोगश्च शिष्यते प्राधान्येन तेषामध्वयु कनूनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवति इत्यर्थः। अर्कश्च अश्वमेधश्च अर्काश्वमेधम् । सायाह्नातिरात्रम् । पौण्डरीकातिरात्रम् । अध्वर्युक्रतुरिति किम् ? पञ्चौदनदशोदनाः। इषुवज्रौ। उद्भिदलभिदौ । एते सामवेदविहिताः । अनबिति किम् ? राजसूर्य च वाजपेयं च राजसूयवाजपेये । इह कस्मान्न भवति दर्शपौर्णमासौ। दधिपयादिषु द्रष्टव्यः। . अधीत्याऽदूराख्यानाम् ॥१४॥ श्राख्या नामधेयम् । अधीत्या निमित्तभूतया अदूराख्यानां द्वन्द्व एकवद्भवति । पदमधीते पदकः । क्रममधीते क्रमकः । पदकक्रमकम् । क्रमकवात्तिकम् । पदाध्ययनस्यासन्नं क्रमाध्ययनम् । अधीत्येति किम् ? आढ्यदरिद्रौ। अदूराख्यानामिति किम् ! याज्ञिकवैयाकरणो। यशमधीते याज्ञिकः । अप्राणिजातेः ॥१४॥२|| अप्राणिजातिवाचिनो द्वन्द्व एकवद्भवति । पाराशस्त्रि । धानाशष्कलि । युगवरत्रम् | अप्राणिग्रहणं किम् ? गौपालिशालङ्कायनाः । गोत्रं चरणैः सहेति जातिः । जातेरिति किम् ? हिमवद्विन्ध्यौ। नन्दकपाञ्चजन्यौ। संशाशब्दा एते । नसदृशसम्प्रत्ययहेतुः। तेन द्रव्यजातीनामेकवदावादिह न भवति । रूपरसगन्धस्पर्शाः। गमनागमने। जातेरविवक्षायां न भवति । बदरामलकानि तिष्ठन्ति । भिन्नलिङ्गो नदीदेशोऽग्रामोऽपुरम् ॥२८॥ भिन्नलिङ्गानां नदीदेशवाचिनामग्रामाणामपुराणां द्वन्द्र एकवद्भवति । नदी-उद्धयश्चरावती च उद्धथे रावति । विपाट्चक्रभिदम् । गङ्गाशोणम् । देशा:-कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । कुरुकुरुजाङ्गलम् । दार्वाश्च अभिसारं च दाभिसारम। काश्मीराभिसारम् । भिन्नलिङ्ग इति किम् ? गङ्गायमुने । मद्रकेकयाः। नदीदेश इति किम् ? कुक्कुटमयूयौं । अग्राम इति किम् ? जाम्बवश्च शालूकिनी च जाम्बवशालूकिन्यो । ननु नद्यपि देश इति पृथग्ग्रहणं किमर्थम् ? ज्ञापकार्थ जनपदो देशोऽभिप्रतो न नदीपर्वतादिः। तेनेह नैकवद्भावः । कैलासश्च गन्धमादनं च कैलासगन्धमादने । अपुरमिति किम् ? लोके ग्रामग्रहणेन पुरमपि गृह्यते ततोऽपुरमिति प्रतिषेधः। मथुरापाटलिपुत्रम् । अग्राम इति प्रसज्यप्रतिषेधः । तेन यत्र पुरग्रामयोर्द्वन्द्वस्तत्रापि नैकत्वम् । नासौर्यकैतवौ पुरग्रामौ । क्षुद्रजीवाः ॥१४ाच्४॥ इहाल्पशरीरः क्षुद्रः । क्षद्रजीवानां द्वन्द्व एकवद्भवति । क्षुद्रजीवाश्रयो द्वन्द्र उपचारात् क्षुद्रजीवा इति निर्देशः । यूकालिक्षम् । शतस्वश्च उत्पादकाश्च शतसूत्पादकम् । दंशमशकम् ।.. "इंद्रजीवा अकङ्काला येषां स्वं नास्ति शोणितम् । नाञ्जलिर्यत्सहस्रण केचिदानकुलादपि ॥") केचित् शब्दः प्रत्येकमभिसंचध्यते । क्षुद्र जीवा इति बहुवचननिर्देशात् द्वित्वविषये नेदमिति यूकालिदौ । दंशमशको । येषाञ्च द्वेषः शाश्वतिकः ॥शा॥ द्वेषोऽप्रीतिः। येषां च द्वेषः शाश्वतिकस्तद्वाचिनो द्वन्द्व एकवद्भवति । शश्वद्भवः शाश्वतिकः । “काला?" [३।२।१३] इति ठञ् । निपातनादिकादेशः । "झे माने टिखम्" इति खं च न भवति । अहिनकलम । श्ववराहम । “अन्यस्यापि' [॥३॥२३२] इति दीत्वम् । शाश्वतिक इति किम ? गौपालिशालङ्कायनाः। केनचिन्निमित्तेन कलहायन्ते । चकारोऽवधारणार्थः। अयमेव नित्य एकवद्भावो यथा स्यात् पश्वादिविभाषा मा भूत् । अश्वमहिषम् । काकोलूकम् । १.पा० महाभाष्ये-"क्षुदजन्तुरनस्थि: स्यादथ वा क्षुद्र एव यः । नाञ्जलियंसहखण केचिदानकुलादपि ।” शाम । २. श्ववाराहम् अ.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy