SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ जैनेन्द्र च्याकरणम् [अ० १ पा० ४ सू०७५-८० %Dance भवति । शतं दायी । सहस्र दायी। “आवश्यकाधमर्ययोर्णिन" [२।३।१४६] इति णिन् । वर्त्यति । गमी ग्रामम् । आगामी नगरम् । “गम्यादिवस्य॑ति'' [२।३।१] इति वर्त्यतिकाले साधुत्वम् । श्राधमण्र्ये चेन इति किम् ? अवश्यंकारी कटस्य । अावश्यकेऽर्थे कालसामान्ये णिन् । व्यस्य ४७॥ व्यसंशस्य प्रयोगे कर्तरि वा ता विभक्ती भवति । भवतः कटः कर्तव्यः । भवता कटः कर्तव्यः । कर्तकर्मणोः कृतीति ता प्राप्ता विभाष्यते । कर्तरीति किम् ? गेयो माणवको गाथानाम् । "भव्यगेय." [२॥४॥५३] श्रादि सूत्रे कर्तरि गेयशब्दो निपातितः । अत्र कर्मणि नित्यं ता भवति । इह कस्माता न भवति क्रष्टव्या ग्राम शाखा देवदत्तेन । नेतव्या ग्राममजा देवदत्तेन । वेति व्यवस्थितविभाषा । तेन "द्विप्राप्तौ परे'' [१/४/६६] इत्यस्यास्ताया व्यप्रयोगे प्रतिषेध एव । __ भाऽतुलोपमाभ्यां तुल्यार्थैः ॥११४७६॥ वेति वर्तते । तुलोपमाशब्दाभ्यामन्यैस्तुल्यार्थैः शब्दैयुंक्त वा भाविभक्ती भवति । तुल्यो देवदत्ते न । तुल्यो देवदत्तस्य । पक्षे शेषलक्षणा ता । अतुलोपमाभ्यामिति किम् ? नास्ति तुला देवदत्तस्य । उपमा नास्ति सनत्कुमारस्य । __ अप चाशिष्यायुष्यमद्भद्रकुशलसुखहितार्थः ॥१:४७७॥ वेति वर्तते । वा अविभक्ती भवतिश्राशिषि गम्यमानायाम् | आयुषो निमित्तं संयोगः । "निमित्तं संयागोत्पादौ" [३।४।३७] "योऽसंख्या परिमाणाश्वादेः' [३।४।३८] इति यः । श्रायुष्य मद्र भद्र कुशल सुख हित इत्यवमथैर्युक्त । श्रायुष्यमिदमस्तु देवदत्ताय देवदत्तत्य वा। चिरमस्तु जोवितं देवदत्ताय देवदत्तस्य वा । मद्रं भवतु जिनशासनाय जिनशासनस्य वा । भद्र देवदत्ताय देवदत्तस्य वा । कुशलं साधुभ्यः । कुशलं साधूनाम् । निरामयं साधुभ्यः। निरामयं साधूनाम् । सुखं साधुभ्यः। सुखं साधूनाम् । शमस्तु साधुभ्यः। शमस्तु साधूनाम् । हितं देवदत्ताय । हितं देवदत्तस्य । पथ्यं देवदत्ताय । पथ्यं देवदत्तस्य । पक्षे शेषलक्षणा ता । चकारः किमर्थः ? अर्थाथैरपि योगे यथा स्यात् । अथों देवदत्ताय । अर्थो देवदत्तस्य । प्रयोजनं देवदत्ताय । प्रयोजनं देवदत्तस्य । तापक्षे वृत्तिर्न भवति अगमक वात् । न हि वृत्त्याऽऽयोगम्यते । आशिषीति किम् ? अायुष्यं देवदत्तस्य । अत्र नाप। प्राणितूर्य सेनाङ्गानां द्वन्द्व एकवत् ॥१४॥८॥ प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां च द्वन्द्व एकवद्भवति । एकार्थवद्वतीति अर्थनिर्देशाद्विशेषणानामपि तद्वत्ता। पाणी च पादौ च पाणिपादम् । दन्तौठम् । शिरोग्रीवम् । यदि प्राण्यङ्गं प्राणिग्रहणेन गृह्यते "अप्राणिजाते. [ १ २] इति प्रतिषेधे प्राप्ते अथ न गृह्यते तदा 'अप्राणिजातेः" इत्येव सिद्ध व्यतिकरनिवृत्यर्थं वचनं प्राण्यङ्गानामन्येन द्वन्द्रो मा भूत् । तूर्यम्-मार्दनिकाश्च पाणविकाश्च मार्दङ्गिकपाणविकम् । सेना-रथिकाश्च अश्वारोहाश्च रथिकाश्वारोहमा । रथिकपादातम् । "सेनाङ्गेषु बहुत्वे" वा०] इति तेन रथिकाश्वारोहो । हस्त्यश्वादिषु परत्वात पशु विभाषा | यद्यप्यभिधानवशादिह समाहारे द्वन्द्वः, दधिपयादिषु इतरेतरयोगे, तरमृगादिषु उभयत्र, तथापि तद्विषयविभागज्ञापनार्थमिदं प्रकरणम् । . चरणानामनूक्तौ ॥१॥४७॥ चरणं कठादिप्रोक्तोऽध्ययनविशेषः। तद्यदा पुरुषेष्वध्यतृषु वर्तते तदेह गृह्यते । अनूक्तिरनुवादः। चरणानां द्वन्द्व एकवद्भवति अनूक्तौ। स्थेणोलुंङन्तयोः प्रयोगे चेदमिष्यते। उदगात् कठकालापम् । प्रत्यष्ठात् कठकोथुमम् । अनूक्ताविति किम् ? उदगुः कठकालापाः । प्रथमोपदेशोऽयम् । कठेन प्रोक्तमधीयते कठाः। प्रोक्कार्थे “शौनकादिभ्यश्छन्दसि णिन् [२३/७७] इति णिन् । तस्य “कठचरणा का दुप्' इत्युप् । अध्येतृविषयस्याणः “उप प्रोक्तात्" [३।२।१४] इत्युप्। कलापिना प्रोतमधीयते कालापाः । प्रोक्लार्थे “कलापिनोऽण्"। टिखम् । परस्याणः "उप्प्रोकात्" [३।२।१४] इत्युप् । “छन्दो ब्राह्मणानि चात्रैव" [३।२।१६] इत्यध्येतृविषयता। - अध्वर्युक्रतुरनप् ॥२४८०॥ अध्वरमिच्छन्ति अध्वर्यवो यजुर्वेदविदः । अतएव निपातनात् क्यच्य For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy