SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० पा० ३ सू० ७०-७५ ] महावृत्तिसहितम् ५६ जनम् । गुणोक्त्येति किम् ? ईषत्कारकः । ईषद्गार्ग्यः । जात्येकार्थसमवायिक्रियागुणापेक्षया जातेरपि वृद्धिहासौ । ता || १३|७० ॥ तान्तं सुबन्तेन सह षसो भवति । मोक्षमार्गः । स्वर्गसुखम् । राजपुरुषः । कृति ॥ १|३|७१ || कृत्प्रयोगे या ता तदन्तं सुपा सह षसो भवति । "न प्रतिपदम् [१।३।७३ ] इति प्रतिषेधं वक्ष्यति । तस्यायं पुरस्तान्निरासः । इध्मनां ब्रश्वनः इध्मश्वनः । पलाशसातनः । विलवनः । श्मश्रुकर्त्तनः । करणे युट् । “कर्तृकर्मणोः कृति " [१।४।६८] इति ता । याजकादिभिः || १ | ३ |७२ || याजकादिभिश्च सह तान्तं समस्यते षसो भवति । पूर्वेण प्राप्तः तृजकाभ्यां कर्त्तरीति प्रतिषिद्धः पुनरनेन सः । देवानां याजको देवयाजकः । साधूनां पूजकः साधुपूजकः । याजक पूजक परिचारक परिवेषक स्नापक अध्यापक उद्वर्त्तक उत्सादक होतृ भर्तृ रथगणक पत्तिगणक । न प्रतिपदम् || १ | ३|७३ ॥ प्रतिपदं विहिता या ता तदन्तं न समस्यते । शेषलक्षणां तां मुक्त्वा सर्वाऽन्यता प्रतिपदविधाना । सर्पिषो ज्ञानम् । पयसो ज्ञानम् । "ज्ञो स्वार्थे करणे" [१|४|५८ ] इति ता । हापि धर्मानुस्मरणम् । धर्मचिन्तनमिति । " स्त्रर्थदयेश कर्मणि” [१|४|५९ ] इत्यनेन शेषलक्षणा तानूद्यते । वनस्वामी | वनेश्वरो विद्यादायाद इत्येवमादिषु “स्वामीश्वर०" [ १ ४/४७ ] आदि सूत्रे चकारेण शेषलक्षणा ता समुच्चीयते । निर्धार || १ | ३ |७४ || निर्धारणे या ता तदन्तं न समस्यते । जातिगुणक्रियाभिः समुदायादेकदेशस्य निष्कृष्य धारणं पृथक्करणं निर्धारणम् | क्षत्रियो मनुष्याणां शूरतमः । श्यामा नारीणां दर्शनीयतमा । कृष्णा व सम्पन्नक्षीरतमा | धावन्तोऽध्वगानां प्रितमाः । क्षत्रियादिशब्देन सह वृत्तिर्न भवति । “यतश्च निर्धारणम्" [ १।४।४१ ] इति चकारेण शेषलक्षणायास्तायाः समुच्चयः । प्रतिपदविधानत्वे हि पूर्वेणैव सिद्धः प्रतिषेध इतीदमनर्थकं स्यात् । इह पुरुषेश्वर इति शेषलक्षणा ता विवक्षिता न निर्धारणलक्षणा । उड् गुणतृप्तार्थं सत्तव्यैकद्रव्यैः || १ |३|७५ ॥ उदन्त गुणार्थं तृप्तार्थ सत्संज्ञ तव्य एकद्रव्य इत्येतैः सह तान्तं न समस्यते । तस्य पूरणे डडित्यतः प्रभृति तमटष्टकारेण डडिति प्रत्याहारः । चक्रधराणां पञ्चमः । तीर्थंङ्कराणां षोडशः । बलदेवानां नवमः । समुदायसमुदितसम्बन्धे शेषलक्षणा ता । गुणार्थ:- बलाकायाः शौक्यम् । काकस्य कार्यम् । कण्टकस्य तैदण्यम् । गुणगुणिसम्बन्धे ता । "एङि पररूपम् " [४३८१ ] इत्यत्र परस्य रूपं पररूपमिति वृत्तिपदं ज्ञापकं यो गुणद्वारेण पूर्व द्रव्ये वृत्तो भवत्यन्ते गुणमाह तेन गुणशब्देनेह प्रतिषेधः । यस्तु सर्वदा गुणवचनस्तेन वृत्तिर्भवत्येव । हस्तिरूपम् । कपित्थरस: । चन्दनगन्धः । अग्निस्पर्शः । गुणशब्देनेह लोकप्रसिद्धा रूपरसगन्धस्पर्शा गुणा अभिप्रेताः । ततस्तद्विशेष्यैरयं प्रतिषेधः तेन यत्नगौरवं सूत्रलाघवं करणपाटवं वचनप्रामाण्यं गोविंशतिरित्येवमादिषु न प्रतिषेधः । वृषलस्य धाष्टर्यमित्यत्र वृत्तेरनभिधानम् । तृतार्थः - फलानां तृप्तः । सक्तनां पूर्णः । फलानां सुहितः । सक्तूनां प्रीतः । "तृप्त्यर्थे तूपसंख्यानम्” [वा०] इति ता । सदिति शतृशानयोः संज्ञा । चोरस्य द्विषन् । “कर्तृकर्मणोः कृति” [१|४|६८ ] इति कर्मणि ता प्राप्ता "न झित ०" [१।४।७२ ] इत्यादिना प्रतिषिद्धः । “द्विषः शतुर्वा वचनम्" [ वा० ] इति ता । इह तु शेषलक्षणा ता । देवदत्तस्य कुर्वन् । देवदत्तस्य कुर्वाणः । तव्यः - देवदत्तस्य कर्तव्यम् । जिनदत्तस्य कर्तव्यम् । अत्रापि "व्यस्य वा कर्तरि" [१।४।७५ ] इति शेषलक्षणा ता । तव्येन केचिद्विकल्पमिच्छन्ति । देवदत्त कर्तव्यम् । एकं द्रव्यमस्य एकद्रव्यम् । राज्ञः पाटलिपुत्रकस्य । शुकस्य मारविदस्य (आचायस्य श्रीदत्तस्य पूर्वनिपातस्यानियमः प्रसज्येत । विशेषणादिसूत्रे इतिशब्दोऽस्ति तेन नीलस्योत्पलस्य नीलो 1 १. पूर्वनिपातस्येत्यादि न भवतीत्यन्तसन्दर्भस्यायमभिप्रायः "एक द्रव्ये तासाङ्गीकारे उभयोः पदयोस्तान्तत्वेन वोक्तत्वात्पूर्वनिपातस्यानियमः प्रसज्येत । ननु नीलस्योत्पलस्य नीलोत्पलस्येत्यत्र कद्रव्यत्वेन तास निषेधः कुतो न, गुणगुणिभावस्थले एकद्रव्यत्वानङ्गी For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy