SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ जैनेन्द्र-व्याकरणम् [म. १ पा० ३ सू० ६६-६६ कुमारी प्रव्रजिता कुमारप्रव्रजिता । कुमारश्च स अध्यापकश्च स कुमाराध्यापकः। कुमारी अध्यापिका कुमाराध्यापिका । श्रमणा प्रव्रजिता कुलटा गर्भिणी तापसी बन्धकी दासी एते स्त्रीलिङ्गाः। अध्यापक अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण । मयूरन्यंसकादयश्च ॥१॥३॥६६॥ मयूरव्यंसकादयश्च शब्दा गणपाठादेव निपातिताः षसंज्ञा भवन्ति । विशिष्टावंसावस्य व्यंसः । इवार्थे कः। व्यंसको मयूरो मयूरव्यंसकः। छत्रव्यंसकः । कम्बोजमुण्डः । यवनमुण्डः । एतेषु परनिपातः प्रयोजनम् । “एडीडादयोऽन्यपदार्थे ।' एहीडमिति यत्र कर्मणि एहि यवैरिति एहीडम् । "हियवं वर्तते । एहिवाणिजेति यस्यां क्रियायां सा एहिवाणिजा। प्रेहिवाणिजा' । एहिस्वागता । अपेहिस्वागता। एहिद्वितीया । अपेहिद्वितीया । प्रोहकटमस्यां प्रोहकटा । प्रोहकर्दमा । उद्धमचूडा । श्राहरचेला । अाहरवसना । अाहरवितता | भिन्धिप्रलवणा । उद्धर उत्सृजेति यस्यां सा उद्धरोत्सृजा । उद्धमविधमा । उद्धरविसृजा । उत्पतनिपता। उत्पचनिपचा। श्राख्यातमाख्यातेन सिद्ध ऽप्यसातत्यार्थ वचनम् । उदक्च अवाक्च उच्चावचम् । उच्चैश्च नीचैश्च उच्चनीचम् । अाचितञ्चोपचितञ्च प्राचोपचम् । आंचितपराचितस्य पाचपराचम् । निश्चितप्रचितस्य निश्चप्रचम् । अकिञ्चनम् । स्नात्वाकालकः । पीत्वास्थिरकः । भुक्त्वासुहितः । प्रोष्यपापीयान् । उत्पत्यपाकला जाता। निपत्यरोहिणी जाता । निषद्यश्यामा जाता । अपेहिप्रघसा वर्तते । इहपञ्चमी । इहद्वितीया । 'जहि कर्नणा बहुलमाभीक्ष्ण्ये कर्तारं चाभिदधाति ।" जहि जोडमित्याह जहिजोडः। उज्जहिजोडः। जहिस्तम्बः । बहलमिति किम् ? पचौदनम् । "पाख्यानमाख्यातेन सातत्ये।" अश्नीतपिबता वर्तते । पचतभृज्जता । मदतमोदता । खादाचामाः। श्राहरविवसा । श्राहरनिष्किरा । अविहितलक्षणं सविधानमिह द्रष्टव्यम् । तेन शाकप्रधानः पार्थिवः शाम्पार्थिवः । कुतपसौश्रुतः । अजातौल्वलिः । धृतरौढीयाः । अोदनपाणिनीया इत्येवमादि सिद्धम् । चकारोऽवधारणार्थः । परमो मयूरव्यंसकः । वृत्त्यन्तरं न भवति । काला मेयैः ॥११३१६७॥ कालवाचिनः शब्दा मेयैः परिच्छेद्यः सह समस्यन्ते षसो भवति । मेयैरिति सम्बन्धात् काला मानवचना गृह्यन्ते । यद्यपि मुख्यं मानव व्यवहारकालस्य मासादेर्न सम्भवति तथापि वचनात् परिच्छेदहेतुत्वमानं साधर्म्यमुपादायोपचारात् कालः परिमाणम् । मासादयो जातादेः सम्बन्धिनीमादित्यगति परिच्छिन्दन्तीति जातस्यापि परिच्छेदहेतव उच्यन्ते । एकाश्रय इति निवृत्तम् । मासो जातस्य मासजातः। संवत्सरजातः। तासापवादोऽयम् । काला इति बहुवचननिर्देशः किमर्थः ? द्वे अहनी जातस्य द्वथहजातः । त्रिपदोऽपि षसो यथा स्यात् । “हृदर्थधु समाहारे।' [१२४६] इत्यवयवषसे “राजाहःसखिभ्यष्टः" [२३] इति टः । “एभ्योऽह्वोऽह्नः [४।२।६०] इति अह्लादेशः । यदा द्वयोरह्नोः समाहार इति विग्रहस्तदा "न समाहारे" [२।६१] इत्यहादेशप्रतिषेधः सिद्धः। द्वयहो जातस्य द्वयत्जातः । त्यहजातः । नन ॥१३६८॥ नञ् सुपा सह समस्यते घसो भवति । अब्राह्मणः । अधर्मः। असर्वज्ञः । अगौः। नेयं पूर्वपदार्थप्रधाना वृत्तिरलिङ्गासंख्यत्वप्रसङ्गात् । किञ्च पूर्वपदप्रधानो हस उक्तः । अमक्षिा कमिति । अन्यपदार्थप्राधान्ये तु अवर्षा हेमन्त इत्यत्र प्रादेशादि प्राप्नोति । अस्तूत्तरपदाथप्रधानेयं वृत्तिः । यद्ये वमगामानयेत्युक्त ऽगोमात्रस्यानयनं स्यात् । अथ स्वयमेव निवृत्तिपदार्थको गोशब्दः स नत्रा केवलं द्योत्यते । एवं सति न कस्यचिदानयनं स्यात् । नायं दोषः । द्वाविह गोशब्दो प्रवृत्तपदार्थको निवृत्तपदार्थकश्च । सारूप्यात्तयोर्भेदापरिज्ञाने निवृत्तपदार्थकस्य द्योतनार्थ नत्रःप्रयोगः प्रतिषेधे सत्युत्तरपदार्थसहशो वृत्यर्थो जायते । "नजिवयुक्तमन्यसइशाधिकरणे तथा ह्यर्थगतिः" [परि०] इति वचनात् । श्रन्यपदार्थे तु परत्वादसो भवति । अशालिको देशः । अकारो नञोऽनित्यत्र विशेषणार्थः । वामनपुत्रादिष्वनादेशो मा भूत् । गुणोक्त्येषद् ॥१॥३॥६६॥ उच्यते इत्युक्तिः शब्दः । गुणशब्देन सह ईषच्छब्दः समस्यते पसो भवति । ईषत्कडारः। ईषत्पिङ्गलः । ईषद्विकटः । ईषदुन्नतः । ईषद्रतः। ईषत्पीतः। हृदुत्पत्तिः प्रयो १. वाणिजा । अपेहिवाणिजा । एहिस्वा-१०, ब०, स० । २. निषण्णरयामा मु.। For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy