SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ० १ पा० २ सू० १२३ - १२८ ] महावृत्तिसहितम् ४१ 2 वहति वाहकः । वाहयति वाहीकेन । यदा गत्यर्थतासंभवस्तदा भवति कर्मसंज्ञा । वहन्ति बलीवर्दा यवान् । वाहयन्ति बलीवर्दान् यवान् । प्रवहत्युदकं देवदत्तः । प्रवाहयत्युदकं देवदत्तम् । “अद्यर्थेषु श्रदिखाद्योः प्रतिषेधो वक्तव्यः [ वा० ] अत्ति देवदत्तः । श्रादयति देवदत्तेन । खादयति ( खादति ) देवदत्तः । खादयति देवदत्तेन । अथवा "सर्वमद्यर्थं कार्यमदेर्न भवतीति वक्तव्यमधिकरणे तविधि मुक्त्वा" [ वा० ] श्रादयते माणवकेन । "वल्यद्यर्थात् " [ १ | २८४ ] ममपि न भवति । "भक्षिरहिंसार्थः कर्मसंज्ञो न भवतीति वक्तव्यम्'' [ वा० ] भक्षयति पिराडी देवदत्तः । भक्षयति पिण्ड देवदत्तंन । अहिंसार्थस्येति किम् ? भक्षयति बलीवर्दो यवम् । भक्षयति बलीवर्द' यवम् । अत्र हिंसाऽस्ति । वनस्पतिकायानां प्राणित्वात् । प्रकृतेन कर्मणा - का इह गृह्यन्ते तेन धिग्रहणे कालादिकर्मणः कर्ता कर्मसंज्ञो भवति । श्रास्ते मासं देवदत्तः । श्रासयति मासं देवदत्तम् । आस्ते गोदोहं देवदत्तः । श्रासयति गोदोहं देवदत्तम् । श्रास्ते क्रोशं देवदत्तः । श्रासयति क्रोशं देवदत्तम् । शब्दे च ॥ १।२।१२३ ॥ शब्दे कर्मभावेन क्रियाभावेन च यो धुर्वर्तते तस्यारयन्तस्य कर्ता गौ कर्मसंज्ञो भवति । शब्दकर्मणः शृणोति देवदत्तः शब्दम् । श्रावयति देवदत्तं शब्दम् । उपलभते देवदत्तः शब्दम् । उपलम्भयति देवदत्तं शब्दम् । श्रधीते माणवकस्तर्कम् । अध्यापयति माणवकं तर्कम् | शब्दक्रियस्य - जल्पति देवदत्तः । जल्पयति देवदत्तम् । विलपति देवदत्तः । विलापयति देवदत्तम् । चशब्दोऽनुक्तसमुच्चयार्थः । तेन ह्वयत्यादिषु न भवति । ह्वयति देवदत्तः । ह्वाययति देवदत्तेन । क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन । कोन वा ॥ १|२| १२४ ॥ हृ कृ इत्येतयोरएयन्तयोर्यः कर्ता स एयन्तयोर्न वा कर्मसंज्ञो भवति । न वेति निर्देशात् प्राप्त चाप्राप्त च विकल्पः । प्राप्त अभ्यवहरति देवदत्तः । श्रभ्यवहारयति देवदत्तं देवदत्तेनेति वा । विहरति देवदत्तः । विहारयति देवदत्तं देवदत्ते नेति वा । विकुर्वते सैन्धवाः । विकारयन्ति सैन्धवान् सैन्धवैरिति वा । द्यर्थम्यर्थे धियंज्ञायां पूर्वेण प्राप्तिः । श्रप्राप्ते - हरति माणवको भारम् । हारयति माणवकं माणवकेन वा । करोति कटं देवदत्तः । कारयति कटं देवदत्त देवदत्तेन वा । चकारोऽनुक्तसमुच्चयार्थेऽनुवर्तते । तेन अभिवदिदृश्योदविषये विकल्पः । अभिवदति गुरुं देवदत्तः । श्रभिवादयते गुरु देवदत्तं देवदत्तेन वा । पश्यन्ति भृत्या राजानम् । दर्शयते भृत्यान् भृत्यैरिति वा । “णिचः " [ १२/७२ ] इति दविधिः । स्वतन्त्रः कर्ता ||१|२|१२५ ॥ | स्वतन्त्र श्रात्मप्रधानः । क्रियासिद्धौ स्वतन्त्रो योऽर्थस्तत् कारकं कर्तृ संज्ञ' भवति । देवदत्तः पचति । देवदत्तेन कृतम् । प्रेषितः करोतीत्यत्रापि स्वातन्त्र्यं गम्यते । अनिछायाम करणात् । इह स्थाली पचतीति स्वातन्त्र्यं विवक्षितम् । तद्योजक हेतुः || १ | २|१२६ ॥ योजकः प्रेरकः, तस्य स्वतन्त्रस्य योजको योऽर्थस्तत् कारकं हेतुसंज्ञ ं भवति । पुल्लिङ्गकर्तृ संज्ञासमावेशात् कर्तृ संज्ञ ं च । कारयति । भोजयति । हेतुत्वात् “हेतुमति” [२|१|२४] इति णिच् । कर्तृत्वाल्लकारवाच्यता । गौणस्यापि योजकस्य हेतुत्वम् । भिक्षा वासयति । कारीषोऽग्निरध्यापयति । तद्योजक इति वचनं ज्ञापकं "तृजकाभ्यां" [ ११३७८ ] "कर्तरि " [ १1३1७६ ] इत्यस्य तास प्रतिषेधस्यानित्यत्वम् । निः || १ |२| १२७ || अधिकारोऽयम् । "प्राग्धोस्ते” [१।२।१४१] इत्यतः प्राक् । यानित ऊर्ध्वमनुक्रमिष्यामो निसंज्ञास्ते वेदितव्याः । वक्ष्यति चादिरसत्त्वे । च वा ह ग्रह एव । निरिति पुल्लिङ्गनिर्देशः किमर्थः १ गितिसंज्ञाभ्यां समावेशो यथा स्यात् । निप्रदेशाः " निरेकाजनाङ्” [१।१।२२] इत्येवमादयः । चादिरसत्त्वे ||१|२|१२८ ॥ सीदत अस्मिंल्लिङ्गसंख्ये इति सत्त्वम् । लिङ्गसंख्यावद् द्रव्यमित्यर्थः । चादयो निसंज्ञका भवन्ति न चेत् सत्त्वे वर्तन्ते । च वाह अह एव एवम् नूनम् शश्वत् सूपत् कूपत् कुवित् For Private And Personal Use Only
SR No.010016
Book TitleJainendra Mahavrutti
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
AuthorShambhunath Tripathi, Mahadev Chaturvedi
PublisherBharatiya Gyanpith
Publication Year1956
Total Pages568
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy