________________
amalennon-finandanlonal
जैनेन्द्रव्याकरणम् ।
एड प्राग्देशे ॥ ७० ॥ अक्षवादेरिति वर्तते । एङ यस्थाचामादिस्तद्दसंज्ञ भवति प्राची देशाभिधाने । एणीपचने जात एणीपचनीयः। एवं गोनीयः। भोजकटीयः। एडिति किम् । आहिच्छत्रः । कान्यकुब्जः । प्राग्ग्रहणं किम् । देवदत्ती नाम वाहीकेषु ग्रामस्तत्र भवो देवदत्तः । देश इति किम् । गोमती नाम नदी तस्यां भवो गौमतः । वा नाम्न इति यदा दुसंज्ञा नास्ति तदेदमुक्तम् । भिन्नलिङ्गो नदी देशोग्रामो पुरमिति ज्ञापकानदी देशग्रहणेन न गृह्यते । शरावतो नाम नदी तस्याः पूर्वी देशः प्राग्देशः । उत्तरस्तू दीचां देशः॥
वा नान्नः ॥ ११ ॥ पुरुषैर्व्यवहाराय सङ्केतितः शब्दः संज्ञानाम । नाम धेयस्य वा दुसंज्ञा भवति । पद्मनन्दीयम । पाद्मनन्दिनम् । देवदत्तीयम् । देवदत्तम् । नाम्न इति किम् । देवदत्त देवदत्त इति यः क्रियानिमित्तको देवदत्तशब्दस्तस्य काश्यादिषु पाठाकठावेव भवतः। वेति व्यवस्थितविभाषा । तेन घृतप्रधानो रौढिः धृतरौढिःसंज्ञेयम्। तस्य शिष्या घृतरीढीयाः। एवमुदनपाणीयाः।वृद्धाम्भीयाः।वृद्धकाश्यपीयाः। नित्यं दुसंज्ञा । जिह्वाकात्यहरितकात्ययान भवत्येव । जैहाकाताः । हारितकाताः ॥ अणुदित्स्वस्यात्मना ऽभाव्यो ऽतपरः ॥ ७२ ॥
अण, उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति आत्मना सह भाव्यमानं तपरं च वर्जयित्वा । इदमणग्रहणं परेण णकारेण । ऋतःस्यादेरेबिति तपरनिर्देशाज्ज्ञा