________________
महावृत्तिसहितम् । किञ्चिद्विशेषणेन च तदन्तविधिः। मृदा नडादयो विशिज्यन्तेन नडादिभिर्मदा । उगिता च वर्णेन च मृद्विशिष्यते। अलीति वर्णनिर्देशः । अलि यो विधिः स तदादा भवति। भुधुर्घवां वोरचीयुवा । चिक्षियतुः । चिक्षियुः। व्यपदे. शिवद्भावेन केवले ऽपि तदादित्वम् । चिक्षिय । येनेति करणे भा । बिधिशब्दः कर्मसाधनः ॥
अक्ष्वायैब्दः ॥ ६ ॥ अक्ष्विति जातिनिर्देश निर्धारणे चेप्। अक्षु आदिभूतोऽच ऐप् यस्य समुदायस्य स दुसंज्ञो भवति । ऐति कायनस्य शिष्य ऐतिकायनीयः। दोश्छ इति छः । आम्ब ठस्थापत्यमाम्बष्ठ्यः । द्वित्कुरुनाद्यजादकोशलाञ्जय इति ज्यः । द्रुघणा अस्मिन्देशे सन्ति बुञ्छराकठेलादिसूत्रे अरीहणादित्वाइन । द्रौघणके जातो द्रौघणकीयः । दो: कषोऊ इति छः। अश्विति किम । हलामविवक्षार्थम् । औपगवीयः । कापटवीयः । जात्यपेक्षया बहुत्वं किम् । व्यच एकाचश्च दुसंज्ञा यथा स्यात् । मालामयम् । वाङ्मयम् । प्रादिरिति किम् । सभासन्नयने जातः साभासन्नयनः । छः प्रसज्येत । ऐबिति किम् । दत्तस्यायं दात्तः । दुप्रदेशा दोश्छ इत्येवमादयः।
त्यदादिः ॥ ६ ॥ त्यदादीनि शब्दरूपाणि दुसंज्ञानि भवन्ति । अक्ष्वादिरिति नेहाभिसम्बध्यते । यद्यभिसम्बन्ध्येत तदोपसर्ज| नत्वे सत्यपि वचनात्तदादेरेव दुसंज्ञा स्यान केवलानामिति । त्यदीयः। तदीयः। तवापत्यं त्वादायनिः । मादायनिः । वा रद्धादेरिति फित्र । त्यदादिः सर्वादेरन्तर्गण श्रा परिसमाप्तेः॥