SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ - महावृत्तिसहितम् । अतिदेशे मा भूत् । यान्तु । वान्तु। थवित्सेरित्यनेनापि मुख्यस्य लको ग्रहणादिह न भवति । बिभ्यतु । जाग्रतु । विदन्तु । द्विषः ॥१॥ लो वेति वर्तते । द्विषः परस्य लडो केर्वा जुम् भवति । अद्विषुः । अद्विषन् । अनिगन्तत्वाज्जुसीत्येप्न भवति । मिशिद्दः ॥ २ ॥ मिङ शितश्च त्या धोर्विहिताः गसंज्ञा भवन्ति । भूयते । नयति । रोदिति । शित् । पचमानः । गसंज्ञाश्रयो विकरण एप भवति । शेषोऽग एव ॥ ३ ॥ मिशिद्भ्यामन्यः शेषः । धोरित्येवं विहितस्य शेषः अगसंज एव भवति । लविता । लवितुम् । लवितव्यम् । अगसंज्ञाकार्यमिडागम एप च । धोरिति विशेषणं किम् । जुगुप्सते। श्रीकाम्यति । लूभ्याम् । अमित्वम् । एवकार उत्तरार्थः । अगप्रदेशाः । वलाधगस्येटगागयोरित्येवमादयः। लिट् ॥ ४ ॥ एक्शब्दोऽनुवर्तते । लिडादेशो मिङ् अगसंज्ञ एव भवति । पेचिय । शेकिथ । वोपदेशइत्यादिनेट् । सेटीत्येवच खम् । गसंज्ञासमावेशनिवृत्यर्थ मेवकारोऽभिसंबध्यते । तेरिम इत्यत्र गसंज्ञायामसत्यां तदाश्रयः शप् न भवति । लिङाशिषि ॥५॥ एवेति वर्तते । नाशिषि यो लिङ् तदादेशश्चागसंत एवं भवति । भावे जागरिषीष्ट । कर्मणि लविषीष्ट । अगसंज्ञायां
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy