________________
ana
-
-
जैनेन्द्रव्याकरणम् यूयमधीध्वे । जैनेन्द्रमधीव तर्कमधीष्व गणितमधीय इत्येवायमधीते इमौ अधीयाते इमे अधीयन्ते। वावचनात् जैनेन्द्रमधीये गणितमधीये तर्कमधीये इत्येवाहमधीये । आवामधीवहे । वयमधीमहे । एवं भूते बस्यति सर्वलकारेषु योज्यम् । कर्वसमुच्चये देवदत्तोऽद्धि जिनदत्तोऽद्धि गुरुदत्तोऽद्वि इत्येव वयमा दनमः । देवदत्तोऽद्धि जिनदत्तोऽद्वि गुरुदत्तोऽद्धि इत्येव यूयमो. दनमत्य । देवदत्तोऽद्धि जिनदत्तो ऽद्वि गुरुदतोऽद्वि इत्येव इमे ओदनमदन्ति । कर्तृ समुच्चये द्विवचन बहुवचनं वा भवति एकस्य समुच्चयाभावात् । क्रियासमुच्चये नोदनं भुव सक्तून् पिब थानाः खाद इत्येवाहमभ्यवहामि आवामभ्यवहरावः वयमभ्यक्षहरामः । बहूनां क्रियाणां समुच्चये सामान्याप्रयोगोऽभिधानवशात् । एवं शंकरसमुच्चयोऽप्यूह्यः ।
निषेधेऽलंखल्वोः का ॥ ४ ॥ वेति वर्तते । अल खलु इत्येतयोनिषेधर्वाचिनोर्वाचो धोः कात्यो भवति। अलं कृत्वा । अलं बाले रुदित्वा । झिनामेवेति नियमात वासो न भवति । निषेध इति किम् । अलंकारः । प्रलंखल्वोरिति किम् । मा कार्षीः । वेत्येव । आलं रोदनेन । प्रकृत्यादिभ्य उपसख्यानमिति भा॥
माङो व्यतिहारे ॥५॥ माङो व्यतिहारेर्थे स्का भवति वा परकालत्वादप्राप्तः का विभाष्यते । अपमित्य याचते । अपमित्य हरति । वेमक इतीत्वम् । वेत्यधिकारात् याचित्वा अपमयते । हत्वा अपमयते । मेडः कृतात्वस्य निर्देशो ज्ञापकः । नानुबन्धकतं हलन्तत्वम् ।
परावरयोगे ॥६॥ परामराभ्यां योगे गम्यमाने घात्का भवति वेति वर्तते ।।
३९