SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ महावृत्तिसहितम् | 1 शेतेरधिकरणे सुबन्ते वाचि प्रत्यो भवति । खे शेते स्वेशयः । गर्तशयः । षे कृति बहुलमिति पचे ऽनुप् । शीङ इति योगविभागात् पार्खादिषु सुबन्तेषु वाक्षु अत्या भवति । पार्श्वभ्यां शेते पार्श्वशयः । पृष्ठशयः । उदरशयः । उत्तानादिषु च कर्तृषु । उत्तानः शेते उत्तानशयः । श्रवमूर्डशयः । दिग्वसहपूर्वाच्च त्यो भवति । दिग्वेन सह शेते दिग्वसहशयः । कथं गिरिशः । लामादिपाठान्मत्वर्थीयशः । यो हि गिरौ शेते गिरिस्तस्यास्ति ॥ चरेष्टः ॥ २१ ॥ रेडोरधिकरणे वाचि दो भवति । कुरुष चरति कुरुचरः । मद्रचरः । मद्रचरी । अधिकरण इत्येव । कुरुश्वरति कुरुचारा ॥ २६४ भिक्षासेनादाये ॥ २२ ॥ अनधिकरणार्थमेतत् । भिक्षा सेना आदाय इत्येतेषु चाक्षु चरेो भवति । भिक्षाचरः । सेनाचरः । आदायशब्दः प्यान्तः । श्रादाय चरति आदायचरः ॥ पुरोऽग्रतोऽग्रेषु सुः ॥ २३ ॥ पुरस् अग्रतस् अग्रे इत्येतेषु सुवन्तेषु वाक्षु सरतेशे भवति । पुरःसरः । अग्रतस् श्राद्यादिभ्य उपसंख्यानमिति एयन्तान्तसिः । अग्रतःसरः । अग्रेसरः । अग्रेसरी । अनीवन्तस्वेप्येकारो निपातनात् ॥ पूर्व कर्त्तरि ॥ २४ ॥ 450 कग्रहणं कर्मनित्यर्थं पूर्वशब्दे कर्तृवाचिनि सुबन्ते वाचि सरतेष्टो भवति । पूर्वः सरति पूर्वसरः ।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy