SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् | १७ वाहीके गोशब्दस्य कथमैवादिकार्यमिति चेत् ! सामान्येन संस्तुतस्य पदस्य प्रयोगाद देोषः ॥ को वेतैा ॥ २४ ॥ fafafer य ओकारस्तदन्त इतौ परतो वा दिसंज्ञो भवति । पटो इति । पटविति । साधा इति । साधविति । काविति किम् । गवित्ययमाह । गौरिति वक्तव्यमशक्त्या गो इत्युक्तमनुक्रियत अनेकान्ताश्रयणात् । अनुकार्यानुकरणयेारभेदविवक्षायामसत्यर्थवत्वे विभक्त यनुत्पाद: । इताविति किम् । पटो ऽत्र ॥ उञ् ॥ २५ ॥ (') उञित्येतस्य वा दिसंज्ञा भवतीतौ परतः । इति । विति । निरेकाजनाङिति नित्यं दिसंज्ञा प्राप्ता । सानुबन्धक निर्देशः किमर्थः । अहो इति । उताहो इति । निसातपक्षे निरनुबन्धस्यास्य मा भूत् ॥ उञः ऊम् ॥ २६ ॥ उञः ऊमित्ययमादेशो भवतीतौ परतः । इति द्विमात्रो नासिक्यो दिसंज्ञकश्च ऊं इति यद्यपठितोऽपि निसंज्ञको ऽस्ति तस्येतावे व प्रयोगो यथा स्यादित्यारम्भः ॥ दाधाभ्वपित् ॥ २१ ॥ दा धा इत्येवं रूपा धवा भुसंज्ञका भवन्ति पितौ वर्जयित्वा । दारूपाश्चत्वारः । प्रणिददाति । दाय् । प्रणिदाता । प्रणिदयते । प्रणिद्यति । धारूपौ द्वौ । प्रणिदधाति । ( १ ) आदर्शपुस्तके २५ । २६ इति सूत्रद्वयं बिलुप्ताक्षर तदनुसन्धानेन कल्पितमादशांन्तरसंवादेन परिशोधनीयम् ॥
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy