SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १९९ free एकवद्भावेो यथा स्यात् पश्वादिविभाषा मा भूत् । अश्वमहिषम् । काकोलूकम् । वर्णेनार्हद्रूपायेोग्यानाम् ॥ ८६ ॥ वर्णेनार्हद्रूपस्यायोग्यास्तेषां द्वन्द्व एकवद्भवति । येन रूपेणार्हन्त्यमवाप्यते । तदिह नैर्ग्रन्थ्यमर्हद्रपमभिप्रेतम् । अतिशयोपेतस्यार्हद्रूपस्य प्रातहार्यसमन्वितस्य बहुतरमघोग्यमिति नेड तद् गृह्यते । तक्षायस्कारम् । कुलालव रूढम् । रजकतन्तुवायम् । नन्वेतेष्वप्येकवद्भावः प्राप्नोति । चण्डालमृतपाः । न दधिपय आदिष्वन्तम् ता द्वन्द्वो द्रष्टव्यः । वर्णेनेति किम् । मूकबधिराः । एते करणदोषेणायोग्याः । अईपायेोग्यानामिति किम् । ब्राह्मणक्षत्रियैौ । A N गवाश्वादीनि च ॥ ८७ ॥ गवाश्वादीनि च गणपाठे इन्द्ररूपाणि च एकव द्भवन्ति । गवाश्वम् । गवैडकम् । गवाविकम् अजाविकम् । पशुविभाषा प्राप्ता । कुब्जवामनम् । कुब्जकैरावतम् । पुत्रपौत्रम् | स्वचाण्डालम् । अद्वेषे स्त्रीकुमारम् । दासीमाणवकम् । शाटीपिच्छिकम् । इदं जात्यविवचायाम् । उष्ट्रखरम् । उष्ट्रशशम् । पशु विभाषा प्राप्ता । सूत्रशकृत् । मूत्रपुरोषम् | यकृन्मेदः । मांसशोणितम् । इमानि जात्यविवक्षायाम् । दर्भशरम् । दर्भपूतिकम् । अर्जुनपुरुषम् । तृणोपलम् । एतेषां तृणविकल्पः प्राप्तः । दासीदासम् । कुटीकुटम् । भागवती भागवतम् । एषां सरूपाणां बिङ्गमात्रकतविशेषाणां निपातद्वन्द्वः । चकारोऽवधारणार्थः । गवाश्वादोनि पठितान्येवैकवद्भवन्ति नान्यथा गोरखा गोश्वम् ॥ 4
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy