________________
१७६
n ce
जैनेन्द्रव्याकरणम् । अथवा चकारोऽनुक्तसमुच्चयार्थः । तेन निमित्तकारणप्रयोजनहेतुषु प्रयुक्तेषु सर्वासां प्रायोदर्शनमित्येतल्लब्धम् । कि निमित्तं वसति । केन निमित्तेन वसति । कस्मै निमित्ताय वसति। कस्मानिमित्तात् । कस्य निमित्तस्य । कस्मिन्निमित्ते वसति । एवं कारणप्रयोजनहेतुध्दाहार्यम् । प्रायोग्रहणादिन्न भवति॥
का ऽपादाने ॥ ३१ ॥ अपादाने कारके काविभक्ती भवति । ग्रामादागच्छति । आचार्याधीते । रथात् पतितः । केति योगविभागादन्यत्राऽपि भवतीति । तेनेदं बहु वक्तव्यं न भवति । प्यखे कर्मणि का वक्तव्या। प्रासादमारुह्य प्रेक्ष्यते। प्रासादात् प्रेक्षते । प्रासादाच्छृणाति । अधिकरणे प्यखे का बक्तव्या। आसने उपविश्य प्रेक्षते । आसनात् प्रेक्षते । शयनात्प्रेक्षते । प्रश्नाख्यानयोश्च का वक्तव्या। किं देवदत्तो व्याकरणात् कथयति । आख्याने व्याकरणात् कथयति । यतश्चाध्वकालपरिच्छेदस्ततः का वक्तव्या । गवीधुमतः साङ्कास्यं चत्वारि योजनानि । कार्तिक्या प्राग्रहायणी मासे।कायुक्तात् परादध्वनः वा वेप च वक्तव्ये। गवधु मत साकाश्यं चत्वारि योजनानि चतुर्षु योजनेषु ॥ दिच्छब्दान्यारादितरःञ्चध्वाहियुक्ते ॥ ३८ ॥
दिच्छन्द अन्य पारात इतर ऋते अचधु आ आहि इत्येतैर्युक्त का विभक्ती भवति । दिकच्छन्द । इयमस्याः पूर्वा । इयमस्या उत्तरा । शब्दग्रहणं किम् । दिशि दृष्टो यः शब्दो देशकालवृत्तिनापि तेन योगे यथा स्यात् । पूर्वो
teedomumdenuradhanma
Anan
appearanamam