SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ महात्तिसहितम् । कर्णे कर्तरि ॥ ३३ ॥ हेताविति वर्तते । कर्तृवर्जित ऋणे हेतौ काविभक्ती भवति । भापवादोऽयम् । शताबद्धः। सहस्राद्धः । उत्तमोऽत्र कर्ता । अकर्तरीति किम् । बहस्त्वया देवदत्तः । नाऽहं बध्नामि । शतं मे धारयति । शतेन बद्धः। बन्धितस्त्वया देवदत्तः। नाऽहं बन्धयामि। शतेन बन्धितः। कथं देवदत्तेन शतेन बन्धितः। एकस्य हेतुकर्तृत्वमपरस्य प्रयोज्यकर्तृत्वमित्यदोषः। कति योगविभागः । तेन हेतो काऽपि भवति । कृतकत्वादनित्यः । अनुपलब्धेर्नास्तीति ॥ गुणे श्रीदत्तस्याऽस्त्रियाम् ॥ ३४ ॥ हेताविति वर्तते । अस्त्रीलिङ्गे गुणे हेता श्रीदत्तस्याचार्यस्य मतेन काविभक्ती भवति । अन्येषां मतेन हेताविति भा। जाड्यावद्धः । जाड्येन बडः । परिख्यात्यान्मुक्तः। पारिख्यात्येन मुक्तः । गुण इति किम् । धनेन कुलम् । अस्त्रियामिति किम् । बुड्या मुक्तः॥ ता हेता ॥ ३५ ॥ हेताविति शब्दनिर्देशोऽयं हेत्वर्थस्य तु प्रकृतत्वात् । हेतुशब्द प्रयुक्त हेत्वर्था ता भवति । अन्नस्य हेतोर्वसति । अध्ययनस्य हेतोर्वसति । भिक्षाया हेतोर्वसति । हेतुशब्दाऽपि हेत्वर्थे वर्तते । तस्मादपि ता । सामानाधिकरण्याद्वा॥ सर्वनानो भा च ॥ ३६ ॥ हेतुशब्द प्रयुक्त सर्वनानो भाविभक्ती ता च । केन हेतुना वसति । कस्य हेतोसति । येन हेतुना वसति । यस्य हेतावसति । पूर्वेण तायामेव प्राप्तायामयमारम्भः।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy