________________
महावृत्तिसहितम्। व्यान्तास्तुल्याख्याश्च अजातिवाचिना सह समस्यन्ते षसो भवति । परनिपातः फलम् । भोज्यञ्च तदुSणञ्च भोज्योष्णम् । भोज्यलवणम् । पानीयशीतम् । हरिणीयपूर्णो घटः। तुल्याख्याः । तुल्यश्च स श्वेतश्च स तुल्यश्वेतः। सदृशश्वेतः । तुल्यमहान् । सदृशमहान् । अजात्येति किम् । भोज्य ओदनः । तुल्यो वैश्यः । इह तुल्यसन्नितिपूज्यत्वाभावात् परत्वादानेन सः । इह कथमेकाश्रया वृत्तिः। कृष्णसारङ्गः । लोहितसारङ्गः । कृष्णशबलः । लोहितशबलः । यदि सारङ्गादिशब्दा जातिवचना जातेः कथञ्चिद्रव्यादभिन्नत्वमित्येकाश्रयत्वमस्ति ततो विशेषणलक्षणः सः। अथ पूर्वोत्तरपदयोर्वर्णविशेषवाचित्वं तत्रापीचछाता विशेषणविशेष्यभावः । कृष्णश्वेतः। श्वेतकृष्णः ॥
कुमारः श्रमणादिभिः ॥६५॥ कुमारशब्दः श्रमणादिभिः सह समस्यते षसो भवति । कुमारशब्दो मृत् । स्त्रीलिङ्गरुत्तरपदैः स्त्रीलिङ्गः। अध्यापकादिभिरुभयथा समस्यते । कुमारी श्रमणा कुमारश्रमणा । कुमारी प्रव्रजिता कुमारप्रनजिता । कुमारश्च स अध्यापकश्च स कुमाराध्यापकः । कुमारा अध्यापिका कुमाराध्यापिका । श्रमणा प्रव्रजिता कुलटा गर्भिणा तापसी बन्धकी दासी एते स्त्रीलिङ्गाः । अध्यापक अभिरूपक पटु मृदु पण्डित कुशल चपल निपुण ।।
मयूरव्यंसकादयश्च ॥ ६६ ॥ मयूरव्यंसकादयश्च शब्दा गणपाठादेव निपातिताः।