SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्रव्याकरणम् । १४५ पाद्वादिजातिः । मुसंख्यादेरित्यकारस्य खम् । चतुष्पाज्जातिगर्भिणोशब्देन सहकाश्रये समस्यते षसो भवति । गौश्च सा गर्भिणी च गोगर्भिणी । अजगर्भिणी। पुंवद्यजातीयदेशीय इति पुंवद्भावः । चतुष्पादिति किम् । ब्राह्मणी गर्भिणी । जातिरित्येव । कालाक्षो गर्भिणी । स्वस्तिमतो गर्भिणी । चतुष्पदः सज्ञैषा । न तु जातिः । विशेष्यस्थ पूर्वनिपातार्थ वचनम् ॥ प्रशंसोत्तया ॥ ६२॥ जातिरिति वर्तते । उच्यते इत्युक्तिः शब्दः । प्रशंसाशब्देन सह जातिवाचि सुबन्त समस्यते षसो भवति। गौश्च स प्रकाण्डञ्च तत् गोप्रकाण्डम्। प्रशस्तो गारित्यर्थः। एवमश्वप्रकाण्डम् । गोमतल्लिका । अश्वमचर्चिका । गोकुमारी । गोतल्लजकः । अभिधाः जातिरित्येव । देवदत्ता कुमारी॥ युवा खलतिपलितवलिनजरद्भिः ॥ ६३ ॥ खलति पलित वलिन जरदित्येतैरैकाश्रयैयुवशब्दः समस्यते षसो भवति ।युवा खलतिः युवखलतिः । युवतिः खलती युवखलती। युवा पलितः युवपलितः । युवतिः पलिता युवपलिता । वलयोऽस्य सन्ति वलिनः । पामादिस्वान्नः। युवा वलिनः युववलिनः। युवतिर्वलिना युववलिना । जुषोऽत इति अतृत्ये कृते जरदिति भवति । युवा जरन् युवजरन् । युवतिर्जरती युवजरती । मृद्ग्रहणे लिङ्गविशिस्थापि ग्रहणम् । पुंवद्यजातीयदेशीय इति पुंवद्भावात् तिशब्दस्य निवृत्तिः ॥ व्यतुल्याख्या अजात्या ॥६४ ॥ MONaNamasumaanomaamom women
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy