SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ - walasana जैनेन्द्रव्याकरणम् । अप भवति । कथमश्वघासो हस्तिविद्येति । तासेन सिद्धम् । अर्थशब्देन नित्यं वृत्तिः । मात्र इदं मात्रर्थम् । त्रिलिङ्गता लोकाश्रयत्वाल्लिङ्गस्य । आतुराी यवागूः । आतुरार्थः सूपः। देवाय बलिः। देववलिः। गृहबलिः । तादयें अप् । गोभ्यो हितं गोहितम् । अश्वहितम् । हितयोगे इदमेव ज्ञापकमपः । गोभ्यः सुखं गोमुखम् । अपचाशिष्येत्यादिना अप् । गोभ्यो रक्षितं गोरक्षितम् । तादर्थे अप। का भीभिः ॥३२॥ बहुवचनादर्थविज्ञानम् । कान्तं भीवचनैः सह षसो भवति । केभ्यो भीः कभीः । वृकभ्यो भीतो वृकभीतः। केभ्यो भीतिः वृकभीतिः । वृकेभ्यो भयं वृकभयम् । सुष्वनुग्रहार्थम् । पूर्वस्यायं प्रपः । मुक्तापेतापाढपतितापत्रस्तैः प्रायः ॥ ३३ ॥ मुक्त-अपेत-अपोढ-पतित-अपत्रस्त इत्येतैः सह कान्तं प्रायः षसो भवति । भवान्मुक्तो भवमुक्तः । पापापेतः। सुखापोहः । स्वर्गपतितः। तरङ्गापत्रस्तः । सर्वत्रापादाने का। प्राय इति किम् । प्रासादात् पतितः। भोजनादपत्रस्त इत्येवमादी न भवति ॥ स्तोकान्तिकदूरार्थकच्छ क्तेन ॥ ३४ ॥ स्तोक अन्तिक दूर इत्येवमर्थाः शब्दाः कृशब्दश्च कान्ता:क्तान्तेन सह षसो भवति । स्तोकान्मुक्तः। अन्तिकादागतः। अभ्यासादागतः। दूरादागतः। विप्रकृष्टादागतः । कृछान्मुक्तः । कृछाल्लब्धः । स्तोकार्थकृछ्रेभ्यो।
SR No.010015
Book TitleJainendra Vyakaranam
Original Sutra AuthorDevnandi Maharaj, Abhaynandi Maharaj
Author
PublisherDevnandiji Maharaj Abhaynandiji Maharaj
Publication Year
Total Pages463
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size135 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy