SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ JE96DESE§€¢È¢€§€§EDEDEDEDE¢ स्मात्तस्मात्तस्याहारस्य विपाकवशात्, 'स्वयं' - स्वत एव, प्रेरणामंतरेणैवेति भावः ' धात्वादि सम्पाद्य' - धात्वादीन् निष्पाद्य, 'पुष्टि' - पोषणं करोति ॥१७॥ मूलम् -- तथाहृतिं 'रोमभिरादधद्यकः, खलं परित्यज्य रसान् समाश्रयेत् । पुनः पुनः प्रोज्झति तन्मलं बलात्, 'दधद्रजः सात्त्विकतामसान् गुणान् ॥१८॥ सज्ज्ञानविज्ञान कषायकामान्, हिताहिताचारविचारविद्याः । रोगान् समाधीश्च दधान एव-मास्ते कथं सक्रिय एष देहे ॥ १९॥ टीका - पुनः किं करोतीत्याह -- तथेत्यादि 'तथे 'ति - समुच्चये, 'यक:' - यः आत्मा, 'रोमभिः' - देहाद् बहिर्द्दश्यमानावयवरूपरोमगणैः आकृष्य, 'आहृतिम् ' - आहारम् ' आदधत् ' - आदधानः सन्, 'खलं ' - रूक्षभागं, 'परित्यज्य' - त्यक्त्वा, 'रसान्' - रक्तादीन् धातून्, 'समाश्रयेत्' - आश्रयेत् गृह्णीयादिति भावः, 'पुनः पुनः' - वारं वारम्, 'बलात्- 'बलपूर्वकं, 'तन्मलं' - रसानां मलं, 'प्रोज्झति' - त्यजति, पुन 'रजः सात्विकतामसान्' - राजससात्विकतामसान् गुणान्, 'दधत् ' - दधानः सन् पुनव 'सज्ज्ञानं ' - सम्यग् ज्ञानं, 'विज्ञानं' - शिल्पशास्त्रविषयिकं ज्ञानं, 'कपायान्' - क्रोधादीन्, 'कामान्' - भोगान्, 'हितम् ' - हितकारकम्, 'अहितम् ' - अहितकारकम्, 'आचारः' - सद्व्यवहारः, 'विचारः ' - परामर्शः, 'विद्या' - ज्ञानम्, एतान् सर्वान् दधत् 'रोगान् व्याधीन्, १. देहवद्दिश्यमानावयवरूपरोमगणैराकृष्य । २. राजस ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy