SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ 3900096999606968 टीका -- सामान्येन जीवस्वरूपमुक्तम्, अधुना विशेषमाह - 'जीवा' इत्यादि । 'हि' इति निश्चये 'समस्ताः' सर्वे जीवाः 'अनन्ताः' अन्तरहिता भवन्ति, कथम्भूतास्ते जीवाः ? पृथिव्यादिमसूक्ष्मवृद्धनि गोदभिन्नाः पृथिवी आदिमाऽऽदिर्येषां ते पृथिव्यादिमाः षट्कायिकास्ते च ते सूक्ष्माथ वृद्धाश्च ते तथा, पृथिव्यादयो द्विविधाः - सूक्ष्मा बादराथ, निगोदा हि निगोदसञ्ज्ञावन्तः साधारणवनस्पतिकायिका इति यावत् । तेऽपि द्विविधाः - सूक्ष्मा बादराश्च । तैर्भेदैभिन्ना ये ते तथा, पुनः कथम्भूताः १ इत्याहनानाविधेत्यादि । 'किल' इति निश्वये, ते समस्ता जीवा 'नानाविधावाप्तसजातियोनिभिन्ना भवन्ति नानाविधा - अनेकप्रकारा अवाप्ताः - प्राप्ता याः सजातियोनयः - समानजातिसम्बन्धिन्यो योनयस्ताभिर्भिन्नाः - भेदमुपगताः, पुनः कथम्भूताः १ 'केवलीक्ष्याः' केवलिना - केवलज्ञानयुक्तेन ईक्ष्याः - दर्शनीयाः । जीवेभ्यः कर्मानन्त्यं श्लोकद्वयेनाह । मूलम् - कर्माणि तेभ्यो यदनन्तकानि, समग्रलोकाम्बर संस्थितानि । घनं किमयेकतरप्रदेशे - ऽप्यनन्तसङ्ख्यानि शुभाशुभानि ॥४॥ टीका -- कर्माणीत्यादि 'यद्' यस्मात् कारणात् 'तेभ्यः' पूर्वोक्तजीवेभ्यः पूर्वाभिहितजीवापेक्षया इत्यर्थः, 'कर्माणि' उक्तस्वरूपाणि 'अनन्तकानि' अनन्तानि सन्ति तस्मात् " यत्तदोनित्यसम्बन्धात् " तदित्यध्याहार्यम्, तानि कर्माणि 'समग्रलोकाम्वरसंस्थितानि' समग्रलोकाकाशे स्थितानि, घनमित्यादि 'घनं किं ?' अत्र विषये बहु किं वक्तव्यम् ? 'अङ्ग्येकतरप्रदेशेऽपि ' 2 अङ्गी - जीवः तस्य 'एकतरप्रदेशेऽपि ' एकैकस्मिन्नपि प्रदेशे तानि 'अनन्तसङ्ख्यानि ' अनन्ता सङ्ख्या येषां तानि तथा सन्ति, कथ G99969 90969690
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy