SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ 966969696:96969696969699 टीका - आत्मायमित्यादि । अत्र प्रश्नोत्तरत्वेनाभिधानं - हे 'आर्या' पूज्याः, आदरार्थ बहुवचनं, 'किल' इति अनुनये, 'अयम्' उक्तः 'आत्मा' जीवः 'कीडशोऽस्ति' किं स्वरूपो विद्यते १ अत्रोत्तरमाह नित्य इत्यादिना - नित्यः' अविचलस्वभावः, पुनः कथम्भूतः १ 'विभुः' व्यापकः केवलिसमुद्घातादौ कृत्स्नलोकाकाशव्यापी स्वकायमात्रव्यापी वा पुनः कथम्भूतः १ 'चेतनवान् ' चेतनायुक्तः, पुनः कथम्भूतः १ 'अरूपी' रूपरहितः अपुगलधर्मेत्यर्थः । तथा इत्यादि तथाशब्दः समुचये, चकारः चरणपूर्त्यर्थः, तु शब्दो विश्लेषणार्थः । ततोऽयमर्थः - आत्मनो भिन्नानि कर्माणि अष्टविधानि कार्याणि । 'कीदृशानि किं रूपाणि संति । अत्रोतरमाह - जडानीत्यादि । 'जडानि' अचेतनानि चेतनालक्षणविरहितामीत्यर्थः पुनः कथम्भूतानि १ रूपीणि पुद्गलमयत्वान्मूर्तानि पुनः कथम्भूतानि १ चया - ऽचयीनि' पूरण - गलनस्वभावकानि ॥२॥ जीवानामानन्त्यम् - तद्भेदाश्च पृथिव्यादयः मूलम् -- जीवाः 'पृथिव्यादिमसूक्ष्मवृद्ध - निगोदभिन्ना हि भवन्त्यनन्ताः । नानाविधाऽवाप्तसजातियोनि - भिन्नाः समस्ताः किल केवलीक्ष्याः ॥३॥ १ जीवाः कथम्भूताः १ पृथिवी आदिमाऽऽदिर्येषां ते पृथिव्यादिमाः पत्रकायिकास्ते च ते सूक्ष्मास प्रवाश्च ते तथा । विशेपणविशेष्यभावस्य विषक्षा नियन्धनत्वात् सूक्ष्मवृद्ध शब्दयोर्विशेष्यतयोपादानेन परनिपातोऽतः पृथिव्यादयो विधा- सूक्ष्मा यादराय । निगोदा हि निगोदसञ्ज्ञावन्तस्तेऽपि सूक्ष्मा यादराय । तेर्भेदेभिना ये ते तथा । यद्वात्र सूक्ष्मयुद्धशब्दौ पृथिव्यादिमनिगोदशब्दयोरन्तरस्थितौ डमरुकमणियत् पृथिव्यादिषु निगोदेषु च योज्यौ ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy