SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ मूलम्-एवं नभःपुष्पमरीचिकाम्भ:-खरीविषाणप्रमुखा अनेके । एतादृशा ये किल सन्ति शब्दाः, संयोगजास्ते किल नैव युक्ताः ॥८॥ टीका-संयुक्तशब्दोदाहरणांतराण्यभिधातुकाम आह-एवमित्यादि ' एवम् '-अनया रीत्या, ' नभ इत्यादि '-नभ:पुष्पम्-आकाशकुसुमम् , मरीचिकाम्भ:-मृगतृष्णाजलम् , खरीविषाणं-गर्दभीशृंगम् , एतत् प्रमुखाः-एतद् आद्या ये, 'अनेके - बहवः, 'एतादृशाः '-इत्थंप्रकाराः,' किले 'ति निश्चये, 'संयोगजाः '-पदसंयोगजन्याः, 'शब्दाः' 'सन्ति '-वर्त्तन्ते, ते शब्दाः 'किले 'ति स्ववार्तायाम् , 'युक्ता नैव'-योग्या नैव सन्ति, वाच्यार्थाभिधानसमर्था न सन्तीतिभावः ॥ ८॥ मूलम्-कर्णेन्द्रियग्राह्यतयापि नैषां, सत्ताऽस्ति तन्नेन्द्रियगोचरः संन् ।। केचित्तु संयोगभवा हि शब्दाः, सन्त्येव ते तद्विरहो न प्रायः॥९॥ यथाहि गोशृङ्गनरेन्द्रकजा-वनीरुहागोपतिभूधराद्याः।। संयोगजाः सन्ति वियोगतश्च, शब्दा अनेके विबुधैर्विवेच्याः ॥१०॥ टीका-उक्तशब्दायोग्यत्वमेव दृढयति-कर्णेन्द्रियेत्यादिना 'एषां'-पूर्वोक्तानाम् , वंध्यासुतादिसंयुक्तशब्दानाम् , 'कर्णेद्रियग्राह्यतयापि'-श्रोत्रंद्रियग्राह्यभावेनापि, श्रोत्रंद्रियेण ग्रहणे सत्यपीतिभावः, 'सत्ता नास्ति'-भावो न विद्यते, फलितमाहतदित्यादिना 'तत् '-तस्मात् कारणात् , ' इन्द्रियगोचरः'-श्रोत्रादिविषयः, ' सन् '-सत्यः, नास्ति, अतो व्यतिरेकमाह १. सत्यः । जसमऊ5555
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy