SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐRS ॐॐॐॐॐॐॐ द्रियेण ग्राह्या:-ग्रहीतुं योग्याः, वर्णाः-अक्षराणि येषां ते तथा सन्ति, पुनः कथंभूताः १ सन्तीत्याह-स्वस्वेत्यादिना । 'स्वस्खस्वभावेन '-स्वकीयस्वकीयस्वभावद्वारा, "उपस्थितम्,'-उत्पन्नम् ,, यत् ' तथाविधं फलं'-तत्प्रकार फलं, तेन । ' अनुमेयाः'-अनुमातुं योग्याः, निजनिजस्वभावोत्पन्नविविधप्रकारकफलज्ञेया इतिभावा, सन्ति, पुनश्च कथंभूताः ? | सन्तीत्याह-किलेत्यादिना ' किले 'ति निश्चयेन, 'केवलीक्ष्याः'-केवलज्ञानिना दर्शनीयाः सन्ति ॥ ४-६॥ मूलम्-ये सन्ति शब्दास्तु पदद्वयादिना, संयोगजास्ते भुवि सन्ति वा नो। यथा हि वन्ध्याऽस्ति सुतोऽपि चाऽस्ति, वन्ध्यासुतश्चेति न युक्तशब्दः ॥७॥ टीका- अत्र विशेषमाह-ये सन्तीत्यादिना 'तु' शब्दो व्यवच्छेदार्थः, 'ये'-शब्दाः, ‘पदद्वयादिना संयोगजाः सन्ति'-द्विपदप्रभृतिसंयोगजन्या वर्तन्ते, द्विपदत्रिपदादिसंयोगोत्पन्ना सन्तीतिभावः, ते पदद्वयादिसंयोगजाः शब्दाः पदद्वयादिसंयोगजन्यशब्दवाच्याः पदार्था इतिभावः, ' भुवि '-पृथिव्यां, संसार इत्यर्थः, 'सन्ति'-विद्यन्ते, 'वा'5 अथवा, "नो'-नैव सन्ति, अस्योदाहरणमाह-यथा हीत्यादिना ' ही 'ति निश्चये, चरणपूत्तौं वा, ' यथा'-येन प्रकारेण, 4 'वन्ध्याऽस्ती 'ति-वंध्याशब्दवाच्यः पदार्थोऽस्तीत्यर्थः, 'च'-पुनः, 'सुतोऽप्यस्ती 'ति-सुतशब्दवाच्या पदार्थोऽप्य स्तीतिभावः, परन्तु 'च'कारश्चरणपूत्तौं, 'वन्ध्यासुत इति युक्तशब्दो ने 'ति-वन्ध्यासुतरूपपदद्वयसंयोगजन्यशब्दवाच्यः पदार्थो नास्तीतिभावः ॥ ७॥
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy