SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ - सरररररररर टीका-उक्तविषय एव पुष्टिमाह-स्वस्थमित्यादिना ' हे बुध !'-चतुर !, नास्तिकं प्रति संवोधनम् , त्वम् ' मनः'चित्तम् , ' स्वस्थं सनिधाय '-सावधानं कृत्वा, 'तत्त्वदृष्ट्या'-तत्त्वदृशा, पक्षपातविहीनयथार्थदृष्टयेतिभावः, ‘एतं'-पूर्वोक्तं, । 'विचारं कुरु'-विमर्श विधेहि, यत् , 'ज्ञानवता'-ज्ञानिना, 'उपदिष्टाः'-कथिताः, 'इमे'-प्रसिद्धाः, शब्दाः सन्ति 'ते'पूर्वोक्ता, ' अमी'-वक्ष्यमाणशब्दाः, भवताऽपि 'अपि' समुच्चयार्थस्तेन मया वाच्या एव पुनर्भवताऽपि भवद्वाच्या इत्यर्थः, 'यथार्थाः '-सत्याः, 'वाच्याः '-वक्तव्याः ॥ १३ ॥ मूलम्-आनन्दशोकव्यवहारविद्या, आज्ञाकलाज्ञानमनोविनोदाः। न्यायानयो चौर्यकजारकर्मणी, वर्णाश्च चत्वार इमे तथाश्रमाः ॥१४॥ आचारसत्कारसमीरसेवा, मैत्रीयशोभाग्यवलं महत्त्वम् । शब्दस्तथार्थोदयभङ्गभक्ति-द्रोहाच मोहो मदशक्तिशिक्षाः ॥१५॥ परोपकारो गुणखेलना क्षमा, आलोचसङ्कोचविकोचलोचाः। रागो रतिर्दुःखसुखे विवेक-ज्ञोतिप्रियाः प्रेमदिशश्च देशाः १. अर्थोऽभिधेयः शब्दोऽयमयं चार्थ इति च क उच्यते कि शब्दार्थयोः कश्चिदाकारादिरस्ति । २. अयं मे प्रियोऽयं चाऽप्रियश्चेति यदा उश्यते तदा तद्वस्तु एव दृश्यते परं येन कृत्वा प्रियशब्दः प्रवर्तते सगुणस्तु दर्शयितुं न शक्य एवमन्यवाऽपि । -
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy