________________
अथ एकादशोधिकारः निगोदव्याप्ताखिलविश्वेऽपि तत्राऽन्यद्रव्यसमावेशावकाशयोरवस्थानमष्टश्लोकैराहमूलम्-स्वामिन्निदं विश्वमशेषमित्थं, पूर्ण निगोदैर्यदि तर्हि तत्र।
काण्यथो पुद्गलराशयोऽपि, धर्मास्तिकायादि कथं हि मान्ति ? ॥१॥ टीका-निगोदैर्विश्वेऽस्मिन् व्याप्ते कथं तत्र कर्मादिसंस्थितिरित्याशंक्य प्रश्नयति-स्वामिनित्यादिना 'हे स्वामिन् !'हे प्रभो!, 'यदि '-चेत्, 'इत्थम् '-उक्तप्रकारेण, ' इदं '-प्रसिद्धम् , ' अशेष '-सर्व, 'विश्व'-जगत् , 'निगोदः पूर्ण'निगोदजीवैर्व्याप्तमस्ति, तर्हि '-तदा, 'तत्र'-तस्मिन् विश्वे, कर्माणि, 'अथेति समुच्चये, 'पुद्गलराशयोऽपि'पुद्गलसमूहा अपि, तथा, 'धर्मास्तिकायादि'-धर्मास्तिकायप्रभृतिकम् , 'ही' ति चरणपूर्ती, 'कथं मान्ति ?'-केन प्रकारेण समाविष्टानि भवन्ति ॥१॥ मूलम्-सत्यं यथा गान्धिकहट्टमध्ये, कपूरंगन्धः प्रसृतोऽस्ति तत्र ।
कस्तूरिकाजातिफलादिसर्व-वस्तूत्थगन्धो ननु माति किं न ॥२॥ टीका-अस्योत्तरमाह-सत्यमित्यादिना ' सत्यमि 'ति-पूर्वोक्तं कथनं सत्यमस्तीतिभावः, ' यथा'-येन प्रकारेण,
36181561315251956-5256.