SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ १० . जैनमेघदूतम् । [प्रथ ततो मूर्छानन्तरं किं जातम् ? इत्याहसक्रीचीभिः स्खलितवचनन्यासमाशूपनीतैः स्फीतैस्तैस्तैर्मलयजजला दिशीतोपचारैः । प्रत्यावृत्ते कथमपि ततश्चेतने दत्तकान्ता कुण्ठोत्कण्ठं नवजलमुचं सा निदध्यौ च दध्यौ ॥३ 'ततः' तदनन्तरं 'सा' राजीमती 'नवजलमुचं' नवीनमे 'निदध्यौं' ददर्श 'च' अन्यद् 'दध्यौ' वक्ष्यमाणं विचारयामास क्क सति ? 'तैस्तैः' सर्वलोकप्रसिद्धैः 'स्फीतैः' प्रभूतैर्मलयजजला दिशीतोपचारैः 'कथमपि' महता कप्टेन 'चेतने ज्ञाने 'प्रत्यावृत्ते सति पश्चाद्वलिते सति । मलयजं चन्दनं जला क्लिन्नवस्त्रमि त्यादयो ये शीता उपचारास्तैः । किंरूपैः ? 'सद्धीचीभिः सखीभिः स्खलितवचनन्यासं यथाभवति 'आशु' शीघ्रं 'उपनीतैः' ढौकितैः । स्खलितः स्खलनां प्राप्तो वचनानां न्यासो यत्र शीतोपचारोपनयने । कोऽर्थः ? राजीमती मूछितां दृष्ट्वा शोकेन हलाश्चन्दनं चन्दनं जलार्दा जलानॆत्यादि सखीनां वचनान्यौत्सुक्येन स्खलन्ति सन्तीति । किंरूपं नवजलमुचम ? 'दत्तकान्ताकुण्ठोत्कण्ठं' दत्ता कान्ते प्रिये कान्तायां वा पत्न्यामकुण्ठा तीक्ष्णा उत्कण्ठा येन स तथा । वर्षाकाले हि नवं मेघमुन्नतं दृष्ट्वा नारीणां कान्ते नराणां कान्तायामुत्कण्ठा जायते । ततः शोकगद्गदखराभिः सखीभिरानीतैश्चन्दनादिशीतोपचारैश्चैतन्ये पश्चाद्वलिते सति राजीमती नवं मेघं ददर्श । तथेति मनस्यध्यायदिति भावार्थः । अत्रानुप्रासप्रकरः । स्खलितवचनन्यासमित्यादिविशेषणैरौत्सुक्यभावोदयः । परिकरालङ्कारश्च, यथा रुद्रट:-"साभिप्रायैः सम्यविशेषणैर्वस्तु यद्विशिष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥” (काव्यालङ्कार ७, ७२) दत्तकान्तेत्यादि नवमेघविशेषणं राजीमत्या अपि स्वामिन्यनुरागभावं सूचयतीति भावः।
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy