SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ सर्गः] श्रीमन्मेरुतुजसरिविरचितं पयष्टिमिव' धनुर्यष्टितुल्यामित्यर्थः । प्रद्युम्नः काम आद्यो मुख्यो यस्यां सा प्रद्युम्नाद्या ताम् । पक्षे प्रकृष्टं द्युम्नं बलं यस्य स प्रद्युम्नो बलाधिकः पुमानाद्यो यस्यां सा ताम् । किंविशिष्टां दीक्षाम् ? 'नवगुणां' नवा गार्हस्थ्ये प्रागभूतत्वात् प्रत्ययाः शीलक्षमादयो गुणा यस्यां सा ताम् । चापपक्षे नवो गुणः प्रत्यञ्चा यस्याम् । पुनः किंभूतां दीक्षाम् ? 'सैषणां' सकलदोषविशुद्धभक्तपानादिग्रहणरूपैषणाख्यततीयसमितिसहिताम् । धनुष्पक्षे एषणो नाराचः । अत्रान्याः समितीविहायैषणासमितेरेवोपादानं व्यवहारशुद्धिर्गृहस्थानामाहारशुद्धिश्च साधूनां प्रशस्यते इति ज्ञापनार्थम् । ननु यदि तेन भगवता दीक्षा गृहीता तदा राजीमती किं मूच्छिता? इत्याह-कामेन 'निकामं' अत्यर्थ क्लिश्यमाना। किंभूतेन कामेन ? 'छलितजगता' छलितं जगद्विश्वं येन । कुतः क्लिश्यमाना? 'तद्भक्ता' इति, एषा राजीमती तस्मिन् श्रीनेमिनाथे भक्ता तद्भक्ता । तथापि राजीमती कुतः पीडयितुं शक्या? इति विशेषणद्वारेण हेतुमाह-'प्रियविरहिता' प्रियेण भर्ना श्रीनेमिना विरहिता वियुक्ता । ततश्चायमत्र भावः-श्रीनेमीश्वरेण चारित्रे गृहीते सति तद्विरहदुःखेन राजीमती मूर्छितेत्येवंकथा सम्बन्धसर्वस्वेतिसति कविरुत्प्रेक्षते-यदा किलाप्रेसरीभूतकन्दर्पसुभटस्य महामोहकटकस्य ध्वंसनायैकवीरेण श्रीनेमिना सैषणा दीक्षाचापयष्टिरप्राहि तदा श्रीनेमिनं प्रत्यपकतुमशक्नुवता छलयुद्धकुशलेन कामेन श्रीनेमिभक्ता श्रीनेमिरहिता चेति निकामक्लिश्यमाना सती राजीमती मूच्छिता। अत्र च भोजकन्या प्रियविरहिता चेति मिथो विरुद्धविशेषणद्वयोपादानं राजीमत्या भगवान् वरो वृतो भगवता पुनर्नैषा वधूत्वेन स्वीकृतेत्युभयभावज्ञापनार्थम् । अत्रोपमाऽनुप्रासश्लेषोत्प्रेक्षाहेत्वलङ्काराः । "कल्पना काचिदौचित्याद्यत्रार्थस्य सतोऽन्यथा। धोतितेवादिमिः शब्दैरुत्प्रेक्षा सा स्मृता यथा ॥" (वाग्भट ४, ९०)॥२॥
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy