SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं कुर्वत्यः ? 'अन्योऽन्यस्यां परस्परं 'इति' अमुना प्रकारेण 'मत्स्यण्डीयुक्त्रिकटुगुटिकाकल्पमुक्तवत्यः' मत्स्यण्डी खण्डं तेन (तया) युक् तन्मिश्रा या त्रिकटुगुटिका तत्कल्पं तत्समानं भाषितवत्यः, कोऽर्थः ? यथा खण्डमिश्रास्त्रिकटुगुटिकाः किञ्चित्तिक्ताः किश्चित् मधुराश्च भवन्त्येवं काचिदुद्धतं काचिन्मधुरं च बभाषे । किंरूपाः ? 'सरसरसनाः' सरसजिह्वाः, पुनः किंविशिष्टाः ? उत्केतुः उत्पताक एतावताऽत्युत्कृष्टः रागो यासां ताः, एतावता सर्वा अपि पट्टदेव्यः खां वा युक्तिमुक्त्वा युगपत्प्रभोः पादयोः पेतुरित्यर्थः । अन्योऽन्यस्यामित्यत्र “परस्परान्योऽन्येतरेतरस्यां स्यादेर्वा पुंसि" (सि. ३-२-१) इत्यनेन अन्योऽन्यस्य शब्दस्याग्रे विभक्तेराम् , ईषदपरिसमाप्ता त्रिकटुगुटिका त्रिकटुगुटिकाकल्पम् , "अतमबादेरीपदसमाप्ते कल्पप् देश्यप् देशीयर" (सि० ७-३-११) इति कल्पप्प्रत्ययः । अत्रातिशयोक्त्युपमोदात्तानुप्रासाः ॥ १६ ॥ सर्वानन्यानपि ननु सुखाकुर्वतः प्रीतितन्तु स्यूतवान्ताः प्रणयविनयाधानदैन्यं प्रपन्नाः । दुःखाकर्तुं तव समुचिता न प्रजावत्य एता राजीविन्यो दिनकृत इवावोचदित्यच्युतोऽपि ॥ १७ ॥ 'अच्युतोऽपि' नारायणोऽपि इति अवोचत् , इतीति किम् ? हे बन्धो! तव एताः 'प्रजावत्यः' भ्रातृजायाः 'दुःखाकर्तु' दुःखयितुं न समुचिताः । कस्येव ? 'दिनकृत ( इव)' सूर्यस्येव, यथा दिनकृतः 'राजीविन्यः' कमलिन्यो दुःखाकर्तुं न समुचिताः । किंरूपा एताः ? 'प्रीतितन्तुस्यूतस्वान्ताः' प्रीतिरेव तन्तुस्तेन स्यूतं खान्तं मनो यासां ताः, एतावताऽत्यन्तस्नेहलाः, पुनः किंरूपाः? 'प्रणयविनयाधानदैन्यं प्रपन्नाः' प्रणयः प्रेम विनयश्च तयोराधानेन न्यसनेन दैन्यं दीनत्वं प्रपन्नाः । किं कुर्वतस्तव ? सर्वानन्यानपि 'सुखाकुर्वतः सुखयतः, एतावता त्वमन्यान् सर्वानपि सुखयसि तत एता भ्रातृजाया दुःखयितुं कथं युक्ताः ।। सुखाकुर्वत इत्यत्र
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy