SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ जैनमेघदूतम् । [तृतीयः गान्धारी चावगिति न परं ब्रह्मतो ब्रह्म जन्मा दृत्वैतासे ध्रुवमुपयतावप्यवाप्तासि तच्च । अस्तुकारात् सुखय ननु नः पादयोः पत्यते ते दासः सस्ते पटुचटुगिरा राज्यमप्याप्यमीश! ॥१५॥ 'च' अन्यद् गान्धारी इति अवक्-हे देवर ! त्वं जन्मात् 'ब्रह्म' ब्रह्मचर्य धृत्वा 'ब्रह्मतः' मोक्षात् परं 'न एतासे' न गन्तासि, 'उपयतावपि' पाणिग्रहणेऽपि 'ध्रुवं' निश्चितं 'तत्' ब्रह्म अवाप्तासि (प्राप्तासि ), कोऽर्थः ? यदि यावज्जीवमपि ब्रह्मचर्य धरसि तदापि मोक्षादूर्ध्व न यास्यसि, यदि च परिणेष्यसि तदापि मोक्षं यास्यस्येव, अर्हतां मोक्षगतेर्निश्चितत्वात् । 'ननु' वितर्के, अस्तुकारात् 'नः' अस्मान् 'सुखय' सुखभाजः कुरु, अस्तु भवतु अधिकारात् पाणिग्रहणमस्तु इति वचनकरणात् । 'ते' तव पादयोः पत्यते । वयं 'ते' तव दास्यः स्मः । हे ईश! 'पटुचटुगिरा' स्पष्टचाटुवाण्या राज्यमपि 'आप्यं' प्राप्यम् । अस्तु इति त्यादिप्रतिरूपकमव्ययम् , ततः अस्तु करणं अस्तुङ्कारः "भावाकोंः ” (सि. ५-३-१८) घप्रत्ययः, "सत्यागदास्तोः कारे” (सि० ३-२-११२) मोऽन्तः । सुखय इति "सुख दुःखण् तक्रियायाम्” इति धातुः। अत्र काव्यलिङ्गोदात्तानुप्रासाः ॥ १५ ॥ अन्योऽन्यस्यां सरसरसना नेतुरुत्केतुरागा मत्स्यण्डीयुक्त्रिकटुगुटिकाकल्पमित्युक्तवत्यः । प्रेमस्थेमक्षितितलमिलन्मौलिमाणिक्यमाला बालांशुश्रीशरणचरणाम्भोजयोः पेतुरेताः ॥१६॥ 'एताः' अन्तःपुर्यः 'नेतुः' स्वामिनः 'प्रेमस्थेमक्षितितलमिलन्मौलिमाणिक्यमालाबालांशुश्रीशरणचरणाम्भोजयोः पेतुः प्रेम स्नेहः तस्य स्थेम्ना स्थैर्येण क्षितितले पृथ्वीतले मिलन् मौलिः मस्तकं तत्र या माणिकामाला तस्या या बालांशुश्रीः बालकिरणलक्ष्मीः तस्याः शरणे स्थाने ये चरणाम्भोजे चरणकमले तयोः पेतुः। किं
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy