SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सर्गः] श्रीमन्मेरुतुङ्गसूरिविरचितं ९५ भ्यो निपतत् क्षरत् मेघपुष्पं जलं यस्य, पुनः किंरूपो भगवान् ? 'अञ्जनाभः' अञ्जनवर्णः । गलज्जलबिन्दून् वर्ण चाश्रित्य तदनुरूपा उत्प्रेक्षा आह, उत्प्रेक्ष्यते-दानश्योती' दानं मदजलं न्योततीति क्षरतीति ईदृशो 'द्विपः' गज इव, उत्प्रेक्ष्यते-'झरनिर्झरः' निर्झरस्रावी अञ्जनाद्रिा इव, वा इवार्थे, अथवा उत्प्रेक्ष्यते-पिण्डीभूतं 'शारदं शरत्संबन्धि 'वियत्' आकाशमिव । किंविशिष्टं वियत् ? 'मनाक्' अल्पं 'वर्षदब्दं वर्षन अब्दो मेघो यस्मिन् तत् । अत्र मालारूपोत्प्रेक्षापर्यायोक्तानुप्रासाः ॥२॥ गोप्तुं शक्ते अपि गुणवती नैव सङ्गाजडानां __ गुह्यं भर्तुस्तदलमनयोः सेवयेत्येष तूर्णम् । थ्योतत्पाथःपृषतमिषतः साश्रुणी वातिसक्ते __ अप्यत्याक्षीत् परिहितचरे वाससी श्वासहार्ये ॥३॥ 'एपः' भगवान् इति परिहितचरे' पूर्व परिहिते 'वाससी' वस्त्रे 'तूर्ण' शीघ्र 'अत्याक्षीत्' त्यक्तवान् । इतीति किम् ? इमे गुणवती अपि जलानां सङ्गाद् भर्तुगुह्यं गोप्तुं न शक्ते, गुणास्तन्तवः, 'गुह्यं' आच्छाद्यमङ्गम् , 'तत्' तस्मात्कारणात् अनयोः सेवया 'अलं' पूर्यताम् । अत्रान्योक्तिमाह-अन्योऽपि यो गुणवानपि जडानां' मूर्खाणां सङ्गात् 'भर्तुर्गुह्यं रहस्यं 'गोप्तुं' रक्षितुं शक्तो न भवति स स्वामिनः सेवकस्त्याज्यो भवति । किंरूपे वाससी ? उत्प्रेक्ष्यते'योतत्पाथःपृषतमिषतः साश्रुणी' 'वा' इवार्थे श्योतन्तः क्षरन्तः पाथसो जलस्य पृषता बिन्दवस्तेपां मिषतः कपटात् साश्रुणी अश्रुसहिते इव, पुनः किंरूपे ? 'अत्या(ति)सक्ते अपि' अत्यर्थमासक्ते लग्ने अपि । अन्योऽपि यः सेवकोऽत्यासक्तोऽतिभक्तो यदा केनचिद्दोषेण त्यज्यते तदा स साश्रुर्भवति । पुनः किंरूपे ? अतिलघुत्वात् 'श्वासहायें' श्वासेन हरणीये। साश्रुणी वेति वा इवार्थ, इवशब्दप्रयोगेऽपि मणी इव मणीवेत्यादिवत् परमतेन सन्धिर्भवति,
SR No.010002
Book TitleJain Meghdutam
Original Sutra AuthorMerutungacharya
AuthorShilratnasuri, Chaturvijay
PublisherAtmanand Jain Sabha
Publication Year1924
Total Pages205
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy