________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharva Shri Kailassagarsuri Gyanmandir
हयारूढं धृतच्छत्रं तं नूतनपुरोहितम् । गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥ ५॥ तदर्शनानिलोद्भूत-भूरिदुःखानलादिता । स्मारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६ ॥ कपिलोऽपि निजामम्वां, रुदतीं वीक्ष्य दुःखितः । रुदन्नित्यवदन्मात-स्त्वं रोदिपि कुतोऽनिशम् ॥ ७॥ साऽवादीदस्य विप्रस्थ, या सम्पत् पुत्र ! वर्तते । साभवचत्पितुः सर्वा, गता च त्वयि निर्गुणे ॥ ८॥ सत्यपि त्वयि पुत्रे यत् , क्रमायाताऽप्यऽगाद्रमा । ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम ॥९॥ मुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् । यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १० ॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति । यो हि त्वां पाठयेत्तस्मै, कुष्येन्नव्यपुरोहितः ॥ ११ ॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् । इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पाठयिष्यति ॥ १२ ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च । आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥१३॥ उपाध्यायोऽभ्यधाद्वत्स!, युक्तस्तेऽसौ मनोरथः। विशेष नाहं कश्चित् , पश्यामि पशुमृत्योः ॥ १४ ॥ किन्तु ते भोजनं दातुं, निःस्वत्वादक्षमोऽस्म्यहम् । तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यति ? ॥ १५॥ भ्रातुष्पुत्राय ते विद्या-थिने प्राघुर्णकाय च । भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाज्नया । भिक्षावृत्या करिष्येऽहं, प्रत्यहं प्राणधारणम् ॥ १७॥ उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते । तदेहि तव भुक्त्यर्थ, प्राथये कश्चिदीश्वरम् ।। १८ ॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् । जगाम कुअर इव, कलभेन समं सरः ॥ १९॥
For Private and Personal Use Only