________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassaqarsuri Gyanmandir
三強聯禁港號號號張榮號器端端“涨涨涨涨藥殘藥號藥殘密密
कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः । स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥ जातचक्रादिरत्नश्च, जितषट्खण्डभारतः । बुभुजे रमणीरत्र-मिव चक्रिरमां चिरम् ॥ ५॥ स चान्यदा भवोद्विनः, संविग्नस्यान्तिके गुरोः । राज्वे निधाय तनयं, सनयं प्रावजत्खयम् ॥ ६ ॥ सर्वायुषा त्रीनतिगम्य सम्यक, समासहस्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मघनानपास्य, प्राप्योत्तम ज्ञानमवाप मुक्तिम् ॥ ७॥
इति श्रीमुद्रित-उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्भता
इति श्री जयचक्रिकथा संपूर्णा
१० श्रीहरिषेणचक्रिकथा अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि । महाहरिरभृद्भूमा-मेराह्वाना च तत्प्रिया ॥१॥ हरिषेणस्तयोर्विश्वा-नन्दनो नन्दनोऽभवत् । चतुर्दशमहास्वम-सूचितोऽस्वमजिन्महाः ॥२॥ कलाकलापमापनो, वर्द्धमानः शशीव सः। चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥ राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयतः सतः । रत्नान्युत्पेदिरेऽन्येद्यु-चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, पखंडमपि भारतम् । जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥ ५ ॥
赛张继露蒂蒂蒂端端帶藥器蒸蒸器強號號號端带筛器端游游游
For Private and Personal Use Only