SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandit www.kobatrth.org 更強落落落婆染染等路密第染等婆婆婆亲密密密添茶鉴茶茶饼 मलः किल समानातो द्विविधः सर्वदेहिनाम् । कर्णनेत्रादिजन्मेको द्वितीयस्तु वपुर्भवः ॥६३ ॥ योगिनां योगसम्पत्तिमाहात्म्याद्विविधोऽपि सः । कस्तूरिकापरिमलो रोगहा सर्वरोगिणाम् ॥ ६४ ॥ योगिनां कायसंस्पर्शः सिञ्चन्निव सुधारसः । क्षिणोति तत्क्षणं सर्वानामयानामयाविनाम् ॥ ६५॥ नखाः केया रदाथान्यदपि योगिशरीरगम् । भजते भेषजीभावमिति सव्वौषधिः स्मृता ॥६६॥ तथाहि तीर्थनाथानां योगभृच्चक्रवर्तिनाम् । देहास्थिसकलस्तोमः सर्वस्वर्गेषु पूज्यते ॥ ६७ ॥ इति श्री मुद्रितउयोगशास्त्रवृत्तितः उद्धृतं इति श्रीसनत्कुमारचरित्रम् संपूर्णम ___७ श्रीभरतवक्रि चरित्रम् अत्रैव भरते शक्रा-ज्ञया श्रीदेन निर्मिता । अस्त्ययोध्यापुरी स्वर्ग--प्रतिस्पर्द्धिसमृद्धिका ॥१॥ प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र, भरतो भरतेश्वरः ॥२॥ चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥३॥ लक्षैश्चतुरशीत्याऽश्व--रथेभानां समाश्रितः । ग्रामाणां च पदातीनां, कोटिषण्णवतेः पतिः ॥ ४ ॥ लोकैत्रिंशत्सहस्र--देशानां धृतशासनः । सत्पत्तनसहस्राणां, द्विश्चतुर्विशतेर्विभुः॥५॥ 张密密添茶器鉴密密的密密密涨紧张密密密涨涨涨涨姿亲密举 For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy