SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जैन कथा - र्णवः ॥ १९॥ www.kobatirth.org दूतोऽपि तदाकर्ण्य, तरङ्गितकुतूहलौ । विलोकयितुमायातावावामवनिवासव ! ॥ १८ ॥ वर्ण्यमानं यथा लोके, शुश्रुवेऽस्माभिरदद्भुतम् । रूपं नृप ततोऽप्येतत्सविशेषं निरीक्ष्यते ॥ १९ ॥ ऊंचे सनत्कुमारोऽपि स्मितविस्फुरिताधरः । इयं हि कियती कान्तिरङ्गेऽभ्यङ्गतरङ्गिते ॥ २० ॥ तो भूत्वा प्रतीक्षेथां, क्षणमात्रं द्विजोत्तमौ । यावन्निवर्त्यतेऽस्माभि-रेष मञ्जनकक्षणः ॥ २१ ॥ विचित्ररचिताकल्पं भूरिभूषणभूषितम् । रूपं पुनर्निरीक्षेथां, सरनमिव काञ्चनम् ।। २२ ।। ततोऽवनिपतिः स्नात्वा कल्पिताकल्पभूषणः । साडम्बरः सदोऽध्यास्ताम्बररत्नमिवाम्बरम् || २३ || अनुज्ञातौ ततो विप्रौ, पुरोभूय महीपतेः । निदध्यतुश्च तद्रूपं, विषण्णौ दध्यतुश्च तौ ॥ २४ ॥ कक्व सा कान्तिः क्व तलावण्यमप्यगात् । क्षणेनाप्यस्य मर्त्यानां क्षणिकं सर्वमेव हि ॥ २५ ॥ नृपः प्रोवाच तौ कस्माद्दृष्ट्वा मां मुदितौ पुरा । कस्मादकस्मादधुना, विषादमलिनाननौ ॥ २६ ॥ ततस्तावूचतुरिदं, सुधामधुरया गिरा । महाभाग ! सुराबावां, सौधर्मस्वर्गवासिनौ ॥। २७ ॥ मध्ये सुरसभं शक्रचक्रे त्वद्रूपवर्णनम् । अश्रद्दधानौ तद्रष्टुं मत्येमूर्त्त्यागताविह ॥ २८ ॥ शक्रेण वर्णितं याक, तादृशं वपुरीक्षितम् । रूपं नृप तवेदानीमन्यादृशमजायत ।। २९ ।। अधुना व्याधिभिरयं, कान्तिसर्व्वस्वतस्करैः । देहः समन्तादाक्रान्तो निःश्वासैरिव दर्पणः ॥ ३० ॥ यथार्थमभिधायेति. द्राक्तिरोहितयोस्तयोः । विच्छायं स्वं नृपोऽपश्यद्विमग्रस्तमिव द्रुमम् ॥ ३१ ॥ अचिन्तयच्च धिगिदं सदा गदपदं वपुः ! मुधैव मुग्धाः कुर्व्वन्ति, तन्मूच्छौं तुच्छबुद्धयः ॥ ३२ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir सनत्कुमार चरित्रम् ॥१९॥
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy