________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8%*
**%99%88
2
बहिः सुप्तस्य तस्यान्ते, गत्वा दत्त्वा प्रदक्षिणाम् । स्थितोऽश्वो ददृशुः पौरास्तं सल्लक्षणमादरात् ॥ ३९ ॥ जयशब्दं व्यधुनन्दी-तूर्यवादनपूर्वकम् । जृम्भां कुर्वन् स उत्तस्था-वारूढो दिव्यवाजिनम् ॥ ४० ॥ प्रवेशं न ददुविप्रा-स्तस्य मातङ्गमरिति । गृहीतो दण्डकस्तेनाऽब्धो ज्वालितुमग्निवत् ॥ ४१ ॥ भीता विप्राः स्थिताः सर्वे, ततो धिग्जातयः कृताः । वाटधानकवास्तव्याश्च[चाण्डालाः करकण्डुना ॥४२॥ उक्तं च-"दधिवाइनपुत्रेण, राज्ञा नु [1] करकण्डुना । वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः॥४३॥" हृत्वाऽवकर्णिकाभिख्यां, पितृभ्यां तस्य समनः । चक्रे बाल कृतं नाम, करकण्डुरिति स्फुटम् ।। ४४ ॥ स समागा[ख्यद् द्विजो मह्यं, स्वोक्तं ग्रामं नृपा[ममा पय । गृहाणाभिमतं स्वस्य, वाक्शूरः पार्थिवोऽवदत् ॥४५॥ मद्गृहं देव ! चम्पायां, तदासनं तम मार्पय । चम्पेशाय ततो लेखः प्रेषितः करकण्डुना ॥ ४६॥ स्वदेशे देहि मे ग्राम-मेकं यद् रोचते हि ते । पुरं वा ग्राममुख्य वा, विषये तद् गृहाण मे ॥४७॥ दण्डस्पृष्टाहिवद् रुष्टस्तत् श्रुत्वा दधिवाहनः । मातङ्गो वेत्ति नाऽऽत्मानमाज्ञापयति यत् स माम् ॥ ४८ ॥ दृतेनैत्योक्तमस्यैतत् , चम्पा रुद्धाऽहवोऽभवत् । साध्वी विज्ञाय तल्लोक-क्षयो मा भूत् कृपां दधौ ॥४९॥ पृष्ट्वा प्रवर्तिनी चम्पा[पां]पुरीमेत्य तपस्विनी । पिताऽयं वत्स ! ते पूज्य, इत्याख्यत् करकण्डवे ॥ ५० ॥ तेन तौ पितरौ पृष्टी, ताभ्यामुक्तं यथास्थितम् । तथाऽप्यहङ्कारवशात् , पितुरन्ते न याति सः ॥५१॥ ततोऽन्तःपुरमार्यागात् , नम्रा दास्योऽरुदंस्तराम् । श्रुत्वाऽऽगत्य नृपो नत्वाऽपृच्छत् तं गर्भमाथिकाम् ॥५२॥ साऽऽहैप येन ते रुद्धं, पुरं हृष्टः स निर्ययौ । मिलितौ पितृ-पुत्रौ तौ, हद्वितात्मतां गतौ (तौ वीज्यङ्गजौ) ॥५३॥
*220002 *99*998
For Private and Personal Use Only