SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः पृथ्वीचन्द्र गुणसागर प्रवन्ध ॥७१ क्रमेणाभ्यस्तसद्विद्योऽ-नवद्यचरितोऽथ सः । अवापत् तरुणीनेत्र-जीवनं यौवनं वयः ॥ ४ ॥ कन्याः षोडश भूपोऽथ, कुमारं पर्यणाययत् । नृसिंहो हरिसिंह-स्तं महामहपुरस्सरम् ॥ ५॥ ज्यायसी प्रेयसी तस्य, मातुलस्य सुताऽभवत् । जयदेवस्य ललित-सुन्दरीत्यभिधानतः ॥ ६॥ पृथ्वीचन्द्रः पुनर्भोग-विमुखः स्त्रीपु नो रतिम् । मनागप्यभजच्चेति, दध्यौ चेतसि सन्ततम् ॥ ७॥ अहो ! पितृभ्यामेषोऽस्मि, रागाब्धौ पातितः कथम् ?। यदेता दयिता नैव, मां विमुश्चन्ति जातचित् ।। ८॥ कथञ्चित् तदुपायेन, प्रेयसीः प्रतिबोध्य ताः । प्रतिपद्ये परिवज्यां, कुर्यां स्वहितमासा ॥९॥ ततोऽमुं निर्मितामन्द-धर्मकर्मेच्छमङ्गजम् । मत्वा मोहादश्रुमिश्र-नयनो जनकोऽब्रवीत् ॥१०॥ वत्स ! स्वच्छमतेऽस्माकं, तावद् वार्धक्यमागतम् । त्वं तु राज्यरमारामासमा-गमपराङ्मुखः ॥ ११ ॥ तद् विचार्य यदत्र स्या-दुचितं कथयाशु तत् । त्वयि राज्यधरेऽद्यापि, यद् वयं राज्यलोलुपाः ।। १२॥ तदेतद्हीकरं लोके, न चायं नः कुलक्रमः । प्राव्रजन् पूर्वजा यन्नः, सर्व राज्यधरेऽङ्गजे ॥१३॥ तत् स्वीकुरु त्वमात्मीयं, राज्यं मा प्रार्थनां वृथा । कानिः स इति श्रुत्वा, तत् पित्रोक्तं तथाऽकरोत् ॥ १४ ॥ ततो निवेशितो राज्ये, पृथ्वीचन्द्रो महामहात् । मोदन्ते स्म जनाः सर्वे, तद्राज्यं विक्ष्य विस्मिताः॥१५॥ अथ पृथ्वीमहेन्द्रेऽस्मिन् , पृथ्वीचन्द्रे पृथुद्युतौ । पृथ्वी शासत्यन्यदैत्य, सुधनाऽऽख्यो वणिग्वरः ॥ १६॥ प्राणमत् प्राभृतेनोवी-पतिं विरचिताअलिः । ते संमान्य नृपोऽपृच्छ-दाश्चयं ब्रूहि किश्चन ॥ १७॥ युग्मम्।। सोऽप्याह कुरुदेशेऽस्मि-नस्ति हस्तिपुरं पुरम् । पुरप्रधानस्तत्रासी-महेभ्यो रत्नसञ्चयः ॥ १८ ॥ ॥७॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy