SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । १४: ध्यानम्अथ ध्यानविधि वक्ष्ये जितेन्द्रियः दृढव्रतः। सम्यग्दृग् गुरुभक्तश्च सत्यवार मन्त्रसाधकः ।। १०३ ॥ एकान्ते शुचिभूमौ स पूर्वोत्तराशादिङ्मुखः । तीर्थाम्भो-गोमयरसैः सिक्तां भूमि विचिन्तयेत् ॥ १०४ ।। सहस्रदलपद्मान्तःपर्यङ्कासनसंश्रितम् । प्रसन्नाभिर्जयाद्यष्टमुरीभिस्तीर्थवारिभिः ॥१०५॥ भृतैः सुवर्णभृङ्गारैत्रिदत्ताम्बुजैः स्वकम् । स्नप्यमानं विचिन्त्यामु मन्त्रं हृदि विचिन्तयेत् ।। १०६ ॥ 'ॐ नमो अरिहंताणं अशुचिः शुचिरित्यतः। भवामि स्वाहा' इति स्नातः कुर्याद देहस्य रक्षणम् ॥ १०७ ॥ १. 'ॐ नमो अरिहंताणं ही हृदयं रक्ष रक्ष हुं फट् स्वाहा ।' २. 'ॐ नमो सिद्धाणं हर हर शिरो रक्ष रक्ष हुं फट् स्वाहा ।' ३. 'जै नमो आयरियाणं ही शिखां रक्ष रक्ष हुं फट् स्वाहा ।' ४. 'ऊँ नमो उवज्झायाणं एहि भगवति ! चक्रे ! कवचत्रिणि! हुं फट् स्वाहा । ५. 'ॐ नमो लोए सबसाहूणं शिमं साधय साधय दुष्टं वजहस्ते ! शूलिनि ! रक्ष रक्ष आत्मरक्षा सर्वरक्षा हुं फट् स्वाहा ॥' कृलाऽमीभिः स्वाहरलां दिग्बन्धं च 'इन्द्रभूतये । स्वाहा धैः सर्वगणभृदाहानं क्रियते ततः ॥१०८ ॥ त्रिमाकारस्फुरज्ज्योतिः समवमृतिमध्यगम् । चतुःपष्टिमुराधीशैः पूज्यमानक्रमाम्बुजम् ॥ १०९॥ छत्रत्रयं पुष्परष्टि-मृगेन्द्रासन-चामराः। - अशोक-दुन्दुभि-दिव्यध्वनिभामण्डलान्यपि ॥ ११०॥ इत्यष्टभिः प्रातिहाभूपितं सिंहलान्छनम् । संसदन्तः सुवर्णाभं वर्धमानं जिनं हृदि ।। १११ ॥ साक्षाद विलोकयन् ध्याता तल्लीनाक्षिमना अमुम् । अष्टोचरं शतं मन्त्रं सरिमन्त्रसमं जपेत् ॥ ११२॥
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy