SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ स्तुतिकल्पलता अथ द्वादशाक्षरपादं जगत्यां प्रियंवदावृत्तम् शिवसुखप्रदविभो ! प्रियंवदा, दिविषदो मधुररावकलिताः । अथ भजन्ति तमहनिशमरं, भजति यस्तव पदाम्बुजवरम् ।।१४।। अथ द्वादशाक्षरपादं जगत्यां प्रमिताक्षरावृत्तम् प्रमिताक्षरां तव वचोलहरी, बहुभक्तितो हृदयतोषकरीम् । बहुलप्रबोधकरवाक्यवरां, प्रभजामि तां भवभयापहराम् ॥१५।। अथ द्वादशाक्षरपादं जगत्यां प्रभावृत्तम् द्युतिपतिशतभासमानद्युते !, मुनिवर ! भवभीप्रविध्वंसक! । जिनवर ! तव सा प्रशस्तप्रभा, मम शमसुखदाऽस्तु वीतस्पृह ! ॥१६।। अथ द्वादशाक्षरपादं जगत्यां कुसुमविचित्रावृत्तम् कुसुम विचित्रां तव जिन ! पूजां, विदधति लोका निरुपमभक्त्या । अमरवरा ये पदयुगलस्य, विदधति सेवां शिवकर ! तेषाम् ॥१७।। ___ अथ त्रयोदशाक्षरपादमतिजगत्यामतिरुचिरावृत्तम् तवाऽनिशं तु सुरवरप्रपूजितो-त्तमक्रमप्रविलसदच्छकान्तिका । सुखाय मेऽस्त्वं तिरुचिरा नखावली, भवोदधिप्रवरतरिजिनेश्वर ! ॥१८।। अथ त्रयोदशाक्षरपादमतिजगत्यां मगेन्द्रमुखवृत्तम् प्रकुपितमप्यथ भूतले कदाऽपि, भवति मृगेन्द्रमुखं न भीतिदानम् । तव चरणाम्बुजभक्तिरक्तचित्ता-समशमधामशरीरिणां यतीन्द्र ! ॥१९।। १२. प्रथममेव नगणेन संयुता, भवति भेन विशदा बुधैर्मता । जगणरञ्जितनिबन्धशोभिता, रगणबद्धचरमा प्रियंवदा ॥ उट्टवणिका यथा - ॥ ॥ 15। 55 १३. प्रथमं भवेत् सगणबन्धयुता, जगणप्रिया सयुगलेन युता । भुवि कस्य नैव सुखदाऽभिमता, प्रमिताक्षरा बुधगणप्रथिता ॥ उट्टवणिका यथा - 05 15। ॥ ॥5 १४. भवति नगणसंयुता नेन या, पुनरपि विबुधप्रिया मण्डिता । रगणविरचिता प्रभाह्लादिका, स्वरशरविरतीरहृयान्तिमा ॥ ___उट्टवणिका यथा - ॥ || SIS SIS १५. नगणपिनद्धा यगणविनद्धा, पुनरपि या स्यान्नगणसुकाम्या । यगणपिनद्धान्तिकपदरम्या, बुधगदिता सा कुसुम विचित्रा | उट्टवणिका यथा - || Iss || Iss १६. भवेत् पुरो जगणयुता ततः पुन-मता बुधैरिह भगणेन मण्डिता। ततो भवेत् सजगुरुराजिता वरा, चतुर्ग्रहैरतिरुचिरा प्रकीर्त्तिता || उट्टवणिका यथा - 15। ||| Is5 १७. नगणविराजितपूर्वभागकं यद्, भवति ततो जगणस्य यत्र योगः । पुनरपि जेन सरेण मण्डितं तत्, सगुरु मृगेन्द्रमुखं बुधैर्विबोध्यम् ॥ उट्टवणिका यथा - || IS IS SIS 5
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy