SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रवर्तक-मुनिश्रीयशोविजयविरचिता तेऽद्रिप्रायानपि रिपुगणान् स्थानतश्चालयन्ति, स्फीतं गीतं त्वतिशययशःपूरमास्फालयन्ति । अंहःपर्क सततमिलितं स्वात्मनः क्षालयन्ति, त्वद्भक्तौ ये सततमलसं चित्तमुत्तालयन्ति ॥१२॥ ते रागादीनतिरयरिपून् सर्वतो ध्वंसयन्ति, स्वान्तं शान्तं दमयमगुणैः सर्वदोत्तंसयन्ति । कर्मव्राताश्चिरतरचितानाशु विख्सयन्ति, ये त्वत्पादानभिनवनवैः सर्वदा शंसयन्ति ॥१३॥ ते सद्युक्तिप्रवरवचनैर्वादिनस्त्रासयन्ति, वादित्रस्तान् सदसि विमुखान् सर्वदाऽऽश्वासयन्ति । साधुस्वान्ताब्जवनमनिशं सर्वथोल्लासयन्ति, ये त्वत्कीर्तीः कलुषहरणीः सर्वतः कासयन्ति ॥१४॥ ते भव्यानां भवभयवतां सव्रतं ग्राहयन्ति, शोकाकीर्णानतिभयभरान् नित्यमुत्साहयन्ति । दोषारण्यं तृणमिव तपस्तेजसा दाहयन्ति, ये त्वद्भक्तिप्रगुणहृदयं कर्म निर्वाहयन्ति ॥१५॥ ते पापौघं तरुमिव परध्यानतस्तक्षयन्ति, शास्त्रव्रातान् विततगहनान् बुद्धितो लक्षयन्ति । सत्तृप्त्यर्थं शुभफलभरं निर्भरं भक्षयन्ति, ये त्वद्भक्तौ भविकमनुजान् सर्वदा दक्षयन्ति ॥१६|| ॥ इति श्रीविविधभयविभञ्जनसज्जनमनोऽनुरञ्जनकुजननिर्बीजगञ्जनसमस्तसहृदयशिरःश्लाघ्यसुशीलशीलितशरीरशोभस्वसौभाग्यसन्दोहसुभूषितभूतलविततगहनगम्भीरस्वपरसमयारण्यविविधविलासपञ्चाननायमान-श्रीमद्विजयनेमिसूरीश्वराणां पादपद्मेन्दिन्दिरायमाणविनेययशोविरचितं श्रीपार्श्वस्य स्तुतिफलप्रशंसास्तोत्रं समाप्तम् ॥ 8 +
SR No.009971
Book TitleStotra Granth Samucchaya
Original Sutra AuthorN/A
AuthorTrailokyamandanvijay
PublisherJain Granth Prakashan Samiti
Publication Year2013
Total Pages380
LanguageHindi
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy