SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ७८ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [बुधाः] बुधानां राष्ट्रस्य राजानः, बुधस्य राज्ञोऽपत्यानि वा = बुधाः । सर्वत्र अनेन इप्र० → इ । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) इञ्लुप् । [प्रात्यग्रथिः] प्रत्यग्रथानां राष्ट्रस्य राजा, प्रत्यग्रथस्य राज्ञोऽपत्यं वा = प्रात्यग्रथिः । [प्रत्यग्रथाः] प्रत्यग्रथानां राष्ट्रस्य राजानः, प्रत्यग्रथस्य राज्ञोऽपत्यानि वा = प्रत्यग्रथाः । [कालकूटिः] 'कूटिण् अप्रमादे' (१८२०) कूट । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । कूटयन्ति(न्ते) = कूटाः । 'अच्' (५।१।४९) अच्प्र० → अ । ‘णेरनिटि' (४।३।८३) णिच्लोपः । कला मनोज्ञा(:) कूटा राशयो यत्र । का(क)लकूटानां राष्ट्रस्य राजा, का(क)लकूटस्य राज्ञोऽपत्यं वा = कालकूटिः । [कलकूटाः] कलकूटानां राष्ट्रस्य राजानः, कलकूटस्य राज्ञोऽपत्यानि वा = कलकूटाः । [आश्मकिः ] अश्मन् 'कैं शब्दे' (३६) कै। 'आत् सन्ध्यक्षरस्य' (४।२।१) का । अश्मानं कायतीति अश्मकः । 'आतो डोऽह्वा-वा-मः' (५।१७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । अश्मकानां राष्ट्रस्य राजा, अश्मकस्य राज्ञोऽपत्यं वा = आश्मकिः ।। [अश्मकाः] अश्मकानां राष्ट्रस्य राजानः, अश्मकस्य राज्ञोऽपत्यानि वा = अश्मकाः । अनेन इञ्प्र० → इ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । यत्र जस् तत्र 'बहुष्वस्त्रियाम्' (६।१।१२४) इञ्लुप् । सर्वत्र प्र० जस् । अजमीढाजकुन्द-बुधास्तूदुम्बरादिविशेषाः, तेऽपि साल्वांशा एव । प्रत्यग्रथादिग्रहणमसाल्वांशार्थम् ॥छ।। दु-नादि-कुर्वित्-कोशला- जादाभ्यः ॥ ६।१।११८ ॥ [दुनादिकुर्वित्कोशलाऽजादात्] एन आदिर्येषां ते = नादयः । दुश्च नादयश्च कुरवश्च इच्च कोस(श)लश्च अजादश्च = दुनादिकुवित्कोस(श)लाऽजादम्, तस्मात् । [ ज्यः] ञ्य प्रथमा सि ।। [आम्बष्ठ्यः ] अम्बायां भवः । 'भवे' (६।३।१२३) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । आम्ब 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'ष: सोऽष्टयै०' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष०(१)/सूत्र(२९) स्था । आम्बे तिष्ठन्तीति आम्बष्ठाः । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । आम्बष्ठानां राष्ट्रस्य राजा, आम्बष्ठस्य राज्ञोऽपत्यं वा । अनेन ब्यप्र० → य । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । [आम्बष्ठाः] आम्बष्ठानां राष्ट्रस्य राजानः, आम्बष्ठस्य राज्ञोऽपत्यानि वा = आम्बष्ठाः । अनेन ब्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । [सौवीर्यः] सुवीर । सुवीरा अत्र सन्ति = सौवीराः । 'तदत्राऽस्ति' (६।२७०) अणप्र० । सुवीराणामिमे = सौवीराः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सौवीराणां राष्ट्रस्य राजा, सौवीरस्य राज्ञोऽपत्यं वा = सौवीर्यः । [सौवीराः] सौवीराणां राष्ट्रस्य राजानः, सौवीरस्य राज्ञोऽपत्यानि वा = सौवीराः । ॐ श० म० न्या० - नकार आदी येषां राष्ट्राणां क्षत्रियाणां च ते = नकारादयः ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy