SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ॥ ११ [औदुम्बरिः] उदुम्बराणां राजा, उदुम्बरस्य राज्ञोऽपत्यं वा = औदुम्बरिः । अनेन इञ्प्र० → इ । 'वृद्धि: स्वरेष्वादेणिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [उदुम्बराः] उदुम्बराणां राजानः, उदुम्बरस्य राज्ञोऽपत्यानि वा = उदुम्बराः । अनेन इप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) इञ्लुप् । प्र० जस् । [तैलखलिः] तिलखलानां राष्ट्रस्य राजा, तिलखलस्य राज्ञोऽपत्यं वा = तैलखलिः । अनेन इप्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० ऐ । [तिलखलाः] तिलखलानां राष्ट्रस्य राजानः, तिलखलस्य राज्ञोऽपत्यानि वा = तिलखलाः । अनेन इप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) इञ्लुप् । [माद्रकारिः] मद्रकाराणां राष्ट्रस्य राजा, मद्रकारस्य राज्ञोऽपत्यं वा = माद्रकारिः । [ मद्रकाराः] मद्रकाराणां राष्ट्रस्य राजानः, मद्रकारस्य राज्ञोऽपत्यानि वा = मद्रकाराः । [यौगन्धरिः] युग 'धंग् धारणे' (८८७) धृ । धरन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० आर् । युगं धारयतीति युगन्धरः । 'धारेर्धर्च' (५।१।११३) खप्र० → अ - धारि० → धर्० | 'खित्यनव्ययाऽरुषो मोऽन्तो हुस्वश्च' (३।२।१११) मोऽन्तः । युगन्धराणां राष्ट्रस्य राजा, युगन्धरस्य राज्ञोऽपत्यं वा = यौगन्धरिः । [युगन्धराः ] युगन्धराणां राष्ट्रस्य राजानः, युगन्धरस्य राज्ञोऽपत्यानि वा = युगन्धराः । [भौलिङ्गिः] भुलिङ्गानां राष्ट्रस्य राजा, भुलिङ्गस्य राज्ञोऽपत्यं वा = भौलिङ्गिः । [ भुलिङ्गाः] भुलिङ्गानां राष्ट्रस्य राजानः, भुलिङ्गस्य राज्ञोऽपत्यानि वा = भुलिङ्गाः । [शारदण्डिः ] 'दण्डण् दण्डनिपातने' (१८६८) दण्ड् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० → इ । शरैर्दण्डयति = शरदण्डः । 'अच्' (५।१।४९) अच्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लोपः । शरदण्डानां राष्ट्रस्य राजा, शरदण्डस्य राज्ञोऽपत्यं वा = शारदण्डिः । [शरदण्डाः] शरदण्डानां राष्ट्रस्य राजानः, शरदण्डस्य राज्ञोऽपत्यानि वा = शरदण्डाः । [आजमीढिः] अजेन मिह्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । 'हो धुट-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवर्गो' (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः-पूर्वस्वरश्च दीर्घः । अजमीढानां राष्ट्रस्य राजा, अजमीढस्य राज्ञोऽपत्यं वा = आजमीढिः । [अजमीढाः] अजमीढानां राष्ट्रस्य राजानः, अजमीढस्य राज्ञोऽपत्यानि वा = अजमीढाः । [आजकुन्दिः ] अजानां कुन्दा येषु तानि । अजकुन्दानां राष्ट्रस्य राजा, अजकुन्दस्य राज्ञोऽपत्यं वा = आजकुन्दिः । [अजकुन्दाः] अजकुन्दानां राष्ट्रस्य राजानः, अजकुन्दस्य राज्ञोऽपत्यानि वा = अजकुन्दाः । [बौधिः ] 'बुधिं ज्ञाने' (१२६२) बुध् । बुध्यते इति बुधः । 'नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः' (५।१।५४) कप्र० → अ । बुधानां राष्ट्रस्य राजा, बुधस्य राज्ञोऽपत्यं वा = बौधिः ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy