SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [महत्कुलीनः] महतां कुलं = महत्कुलम्, तस्यापत्यं = महत्कुलीनः । 'कुलादीनः' (६।१।९६) ईनप्र० ॥छ।। कुर्वादेर्यः ॥ ६।१।१०० ॥ [कुर्वादेः ] कुरुरादिर्यस्य सः = कुर्वादिः, तस्मात् । [ज्यः] ज्य प्रथमा सि । [कौरव्यः] कुरु । कुरोर्ब्राह्मणस्यापत्यं = कौरव्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।६८) अव् । अक्षत्रियवचनस्येह कुरोर्ग्रहणम् । क्षत्रियवचनात् तु 'दु - नादि - कुर्वित् - कोशला - ऽजादाभ्यः' (६।१।११८) ज्य: । अयं च अनयोर्विशेषः । तस्य द्रिसंज्ञत्वात् बहुषु लुप् - [कुरवः] कुरोरपत्यानि = कौ(कु)रवः । 'दु - नादि - कुर्वित्' (६।१।११८) ज्यप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । प्रथमा जस् । 'जस्येदोत्' (१।४।२२) ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । अस्य तु द्रिसंज्ञाया अभावात् - [कौरव्याः ] कुरोर्ब्राह्मणस्यापत्यानि = कौरव्याः । अनेन ब्यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । प्रथमा जस् । [कौरव्यायणिः] कुरोः क्षत्रियस्यापत्यं = कौरव्यः । 'दु - नादि - कुर्वित्' (६।१।११८) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । कौरव्यस्यापत्यं युवा = कौरव्यायणिः । “तिकादेरायनि' (६।१।१०७) आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अस्माच्चात इञ् - __ [कौरव्यः] कुरोर्ब्राह्मणस्यापत्यं = कौरव्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' ७४७०) अव् । कौरव्यस्यापत्यं = कौरव्यः । 'अत इञ्' (६।११३१) इप्र० । 'जिदार्षादणिोः ' (६।१।१४०) इञ्लुप् । कुरुशब्दश्च तिकादिष्वपि पठ्यते - [कौरवायणिः] कुरोरपत्यं = कौरवायणिः । “तिकादेरायनि' (६।१।१०७) आयनिप्र० → आयनि । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । [शाङ्कव्यः] शङ्क । शङ्कोरपत्यं = शाङ्कव्यः । अनेन ध्यप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । [शाङ्कव्याः ] शङ्कोरपत्यानि = शाङ्कव्याः । अनेन ज्यप्र० । अस्य द्रिसंज्ञाया अभावान्न 'बहुष्वस्त्रियाम्' (६।१।१२४) लुप् । प्रथमा जस् । [शाङ्कव्यः ] शङ्कोरपत्यं वृद्धं = शाङ्कव्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । [शङ्कवः] शङ्कोरपत्यानि वृद्धानि = शङ्कवः । 'गर्गादेर्य' (६।१।४२) यप्र० । 'योऽश्यापर्णान्त - गोपवनादेः' (६।१।१२६) यञ्लुप् । प्रथमा जस् ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy