SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । व्याचितीना = = [ द्व्याचितीना, द्व्याचितिकी, द्व्याचिता ] द्वे आचिते पचति संभवत्यवहरति वा व्याचितिकी । अनेन इन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । एवम् द्व्याचिता । 'संभवदवहरतोच' (६|४| १६२ ) इकण्प्र० । अनाम्न्यद्विः प्लुप्' (६|४|१४१) लुप् । यथाक्रमेण 'आत्' (२|४|१८) आप्प्र० । ‘अणञेयेकण्॰' (२।४।२० ) ङी । 'परिमाणात् तद्धितलु०' (२।४।२३) इति निषेधात् ङीर्न भवति । ३७८ [ व्याढकीना, व्याढकिकी, व्याढकी] द्वे आढके पचति संभवत्यवहरति वा द्व्याढकीना, द्व्याढकिकी । अनेन ईन - इकट्प्र० इक । 'अवर्णेवर्णस्य' (२४।६८) अलुक्। 'आत्' (२|४|१८) आपप्र० । 'अणवेयेकण्०' (२।४।२०) ङी । एवम् = द्व्याढकी । 'संभवदवहरतोश्च' (६|४|१६२ ) इकण्प्र० । 'अनाम्न्यद्विः प्लुप्' (६|४|१४१ ) लुप् । 'परिमाणात् तद्धितलुक्य०' (२।४।२३) ङी । तारकाढकेति त्रिलिङ्गः ॥छ || कुलिजाद् वा लुप् च | ६|४|१६५ || [ कुलिजात् ] कुलिज पचमी ङसि । [वा ] वा प्रथमा सि । [ लुप् ] लुक् (प्) प्रथमा सि । [च] च प्रथमा सि । [द्विकुलिजीना, द्विकुलिजिकी, द्विकुलिजी, द्वैकुलिजिकी] द्वे कुलिजे पचति संभवत्यवहरति वा = द्विकुलिजीना, द्विकुलिजिकी । अनेन ईन - इकट्प्र० इक । 'अवर्णेवर्णस्य' ( ७|४|६८) अलुक् । 'आत्' (२|४|१८) आपप्र० I 'संभवदवहरतोच' (६|४|१६२ ) इकण्प्र० → इक I अनेन वा वा लुप् । 'परिमाणात् तद्धितलुक्यविस्ताऽऽ चितकम्बल्यात्' (२|४|२३) ङी । द्वितीये वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'अणञेयेकण्०' (२।४।२० ) ङी ||छ || वंशादेर्भाराद्धरद्वहदावहत्सु ।। ६।४।१६६ ।। [ वंशादे: ] वंश आदिर्यस्य सः = वंशादिः तस्मात् । [ भारात्] भार पचमी ङसि । [ हरद्वहदावहत्सु ] हरंश्च वहंश्च आवहंश्च = हरद्वहदावहन्त:, तेषु । [ वांशभारिकः ] वंशस्य भारः = वंशभारः । वंशभारं हरति वहति आवहति वा = → इक वृद्धिः । [ कौटभारिकः ] कुटभारं हरति वहति आवहति वा = इक वृद्धिः औ । 'अवर्णेवर्णस्य' (७४६८) अलुक् । कौटभारिकः । अनेन 'इकण्' (६|४|१) इकण्प्र० → [ वांशिक: ] भारभूतान् वंशान् हरति वहति आवहति वा 'अवर्णवर्णस्य' (७४/६८) अलुक् । [ कौटिकः] भारभूतान् कुटान् हरति वहति आवहति वा = 'अवर्णेवर्णस्य' (७४/६८) अलुक् । वांशहा (भा) रिकः । इकण्प्र० वांशिकः । अनेन इकण्प्र० इक वृद्धिः । → । कौटिक । अनेन इकण्प्र० इक वृद्धिः । [ वाल्वजिक: ] भारभूतान् वल्वजान् हरति वहति आवहति वा = वृद्धिः । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । वाल्वजिकः । अनेन इकण्प्र० → इक । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [378]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy