SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३५६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । 'णेरनिटि' (४।३।८३) णिग्लुक् । उत्थापनं प्रयोजनमस्य = उत्थापनीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।। विशि-रुहि-पदि-पूरि-समापेरनात् सपूर्वपदात् ॥ ६।४।१२२ ॥ [विशिरुहिपदिपूरिसमापेः] विशिश्च रुहिश्च पदिश्च पूरिश्च समापिश्च = विशिरुहिपदिपूरिसमापि, तस्मात् । [अनात् ] अन पञ्चमी ङसि । [सपूर्वपदात् ] सह पूर्वपदेन वर्तत इति सपूर्वपदस्तस्मात् । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सह० → सभावः । [गृहप्रवेशनीयम् ] गृह प्र 'विशंत् प्रवेशने' (१४१५) विश् । प्रविश्यते = प्रवेशनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । गृहस्य गृहे वा प्रवेशनं प्रयोजनमस्य तत् = गृहप्रवेशनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [संवेशनीयम् ] संवेशनं दानं-प्रयोजनमस्य = संवेशनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [अनुवेशनीयम् ] अनु-पश्चात् वेशनं-गमनं प्रयोजनमस्य = अनुवेशनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [अनुप्रवेशनीयम् ] अनुप्रवेशनं प्रयोजनमस्य = अनुप्रवेशनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [समावेशनीयम् ] समावेशनं प्रयोजनमस्य = समावेशनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [प्रासादारोहणीयम् ] प्रासाद 'रुहं जन्मनि' (९८८) रुह, आपर्व० । प्रासादे आरुह्यते = प्रासादारोहणम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । प्रासादारोहणं प्रयोजनमस्य = प्रासादारोहणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [आरोहणीयम् ] आरोहणं प्रयोजनमस्य = आरोहणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [प्ररोहणीयम् ] प्ररोहणं प्रयोजनमस्य = प्ररोहणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [अनुरोहणीयम् ] अनुरोहणं प्रयोजनमस्य = अनुरोहणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [अन्वारोहणीयम् ] अन्वारोहणं प्रयोजनमस्य = अन्वारोहणीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम्। [अश्वप्रपदनीयम् ] 'पदिंच गतौ' (१२५७) पद्, प्रपूर्व० । प्रपद्यते = प्रपदनम् । 'अनट्' (५।३।१२४) अनटप्र० → अन । अश्वानां प्रपदनं = अश्वप्रपदनम् । अश्वप्रपदनं प्रयोजनमस्य = अश्वप्रपदनीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि-अम् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[356]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy