SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३५० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । तस्मै भृता-ऽधीष्टे च ॥ ६।४।१०७ ॥ [तस्मै ] तस्मै पञ्चमी ङसि । सूत्रत्वाल्लुप् । [भृताऽधीष्टे] भृतश्च अधीष्टश्च = भृताऽधीष्टम्, तस्मिन् । [च] च प्रथमा सि । भृतः - वेतनेन क्रीतः । अधीष्टः सत्कृत्य-पूजयित्वा व्यापारितः । [मासिकः कर्मकरः] मासाय भृतः = मासिकः कर्मकरः । 'भृतौ कर्मणः' (५।१।१०४) टप्र० → अ । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । मासं कर्मणे भृत इत्यर्थः ।। [मासिक उपाध्यायः] मासाय अधीष्टः = मासिक उपाध्यायः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जमासमध्यापनाय अधीष्ट इत्यर्थः । [वार्षिकः ] वर्षायाधीष्टः = वार्षिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [सांवत्सरिकः] संवच्छरायाधीष्टः = सांवच्छरिकः । अनेन इकणप्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । चकारस्तेन 'निर्वृत्ते' (६।४।१०५)- 'तं भावि-भूते' (६।४।१०६) - 'तस्मै भृता-ऽधीष्टे च' (६।४।१०७) इति सूत्रत्रयस्याप्युत्तरत्रानुवृत्त्यर्थः ॥छ।। षण्मासादवयसि ण्येकौ ॥ ६।४।१०८ ॥ [षण्मासात् ] षण्मास पञ्चमी ङसि । [अवयसि ] 'वेंग् तन्तुसन्ताने' (९९२) वे । वयते = वयः । 'अस्' (उणा० ९५२) अस्प्र० । 'एदैतोऽयाय्' (१।२।२३) अय् । न वयः = अवयस्तस्मिन् । [ण्येकौ ] ण्यश्च इकश्च = ण्येकौ । [षाण्मास्यः, षण्मासिकः] षष्-मास । षड्भिर्मासैनिर्वृत्तः । षण्मासान् भावी भूतो वा । षड्भ्यो मासेभ्यो भृतोऽधीष्टो वा = षाण्मास्यः षण्मासिकः । अनेन ण्यप्र० → य - इकप्र० । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'धुटस्तृतीयः' (२।११७६) ष० → ड० । 'तृतीयस्य पञ्चमे'(१।३।१) ड० → ण० ।। [षण्मास्यः] षण्मासान् भूतः = षण्मास्यः । षण्मासाद् य-यणिकण्' (६।४।११५) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०॥छ।। समाया ईनः ॥ ६।४।१०९ ॥ [समायाः] समा पञ्चमी ङसि । [ईनः ] ईन प्रथमा सि । [समीनः] समा । समया निर्वृत्तः । समां भूतो भावी वा । समायै भृतोऽधीष्टो वा = समीनः । अनेन ईनप्र० । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र०॥छ।। 卐 हैमप्रकाशे - मासमध्ययनाय......। Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013)[350]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy