SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । कल्यग्नेरेयण ।। ६।१।१७ ॥ [कल्यग्नेः ] कलिश्च अग्निश्च = कल्यग्नि, तस्मात् । [एयण ] एयण् प्रथमा सि । [कालेयम्, आग्नेयम् ] कलि-अग्नि । कलिर्देवताऽस्य = कालेयम् । अग्निर्देवताऽस्य = आग्नेयम् । कलौ भवं = कालेयम् । अग्नौ भवम् = आग्नेयम् । कलिना दृष्टं साम = कालेयम् । अग्निना दृष्टं साम = आग्नेयम् । कलेरिदं = कालेयम् । अग्नेरिदम् = आग्नेयम् । अनेन एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) इलोपः । अणपवादे च कलेरागतं = कालेयम् । अग्नेरागतम् = आग्नेयम् । 'तत आगते' (६।३।१४९) इत्यणो बाधको अत्र 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) इत्यादिना रूप्य-मयटौ स्याताम्, तयोर्बाधकोऽनेन एयणप्र० → एय । वृद्धिः । कलये हितं = कालेयम् । अग्नये हितम् = आग्नेयम् । अनेनैव मतान्तरे एयणप्र० → एय । स्वमते तु 'तस्मै हिते' (७।१।३५) यप्र० । सि-अम् । [कालेयः, आग्नेयः] कलेनिमित्तमुत्पातः संयोगो वा = कालेयः । अग्नेनिमित्तमुत्पातः संयोगो वा = आग्नेयः । सिद्धान्ते तु अत्र ‘हेतौ संयोगोत्पाते' (६।४।१५३) इतीकण्बाधकोऽनेन एयणप्र० → एय । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते'० (१।३।५३) विसर्गः ॥छ।। पृथिव्या आ-ऽञ् ॥ ६।३।१८ ॥ [पृथिव्याः] पृथिवी पञ्चमी ङसि । [ञाऽञ्] जश्च अञ् च = ञाऽब् । प्रथमा सि । [पार्थिवः, पार्थिवा, पार्थिवी] पृथिवी । पृथिव्यां भवः = पार्थिवः । अनेन ब-अप्र० । 'वृद्धिः स्वरेष्वादेफिति'० (७४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७४।६८) ईलोपः । आऽजोः स्त्रियां विशेषः प्रथमे । 'आत्' (२।४।१८) आप्प्र० → आ । अञ् इत्यत्र 'अणजेयेकण-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । अणपवादे च पृथिव्या अपत्यं = पार्थिवः । अनेन -अप्र० । 'वृद्धिः । शेषं पूर्ववत् । अत्र 'ड्याप्त्यूङः' (६।१।७०) इत्यनेन एयण् स्यात् । पृथिव्या अपत्यानि । अञो लुपि पृथिवीनां सङ्घादिविवक्षायां 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकविषये 'न प्राग्जितीये स्वरे' (६।१।१३५) इति अञो लुबभावे अकञ्बाधके 'सङ्घ-घोषा-5ङ्कलक्षणेऽञ्-यञिञः' (६।३।१७२) इत्यणि पार्थिवः । एताषामर्थे...... श्च अविधानस्य प्रयोजनम् ॥छ।। उत्सादेरञ् ॥ ६।१।१९ ॥ [ उत्सादेः] उत्स आदिर्यस्य सः = उत्सादिः, तस्मात् । [अञ्] अञ् प्रथमा सि । [औत्सम् ] उत्स । उत्सस्येदम् = औत्सम् । अनेन अप्र० → अ । 'वृद्धिः स्वरे' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy