SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ।। [प्राजापत्यम् ] प्रजापतिर्देवताऽस्य = प्राजापत्यम् । अनेन व्यप्र०य । 'वृद्धिः स्वरे'० (७|४|१) वृ० आ । 'अवर्णैवर्णस्य' (७।४।६८) इलोपः । [ आदित्य्यः ] आदित्य । आदित्यस्यापत्यम् आदित्य्यः । अनेन ञ्यः । 'अवृद्धाद् दोर्नवा' (६।१।११० ) इत्यायनिञः पक्षे इञ् प्राप्नोति सोऽनेन व्यप्रत्ययेन बाध्यते वृद्धिरपि । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२२४१९२) यलोपः । ततोऽस्याः' (१|३|३४) द्वित्वम् । [ याम्य: ] यमस्यापत्यं = याम्यः । अनेन ञ्यः । शेषं पूर्ववत् । अत्र परत्वात् ‘अत इञ्' (६।१।३१) इतीञ् स्यात् । [ वानस्पत्यम् ] वनस्पति । वनस्पतीनां समूहः = वानस्पत्यम् । अनेन ज्यः अत्राचित्तलक्षणः 'षष्ठ्याः समूहे' (६२९) इति अणो बाधक इकण् स्यात्, तस्याऽपि बाधकोऽयं ज्यो हि प्राग्जितीयमणं बाधित्वा सावकाश इत्यणोऽपवादग्रहणमन्यथा अश्विषये एव स्वात् न अणोऽपवादविषये । १३ = [ वास्तोष्पत्य भार्यः ] वास्तोष्पतिर्देवताऽस्याः । 'द्यावापृथिवी शुनासीराऽग्नीषोम- मरुत्वद्- वास्तोष्वति गृहमेधादीययौ' (६।२।१०८) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलोप: । वास्तोष्पत्या भार्या यस्य सः । 'गोश्चान्ते० ' (२।४।९६) ह्रस्वः परतः स्वी० (३१२२४९) पुंवद्भावः प्रथमपदे । [ आदितीयम् ] आदित्य । आदित्यस्वेदम् आदितीय: । 'दोरीय:' ( ६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४|६८) अलुक् तद्धितयस्वरेऽनाति' (२२४९२) यलोपः । सि अम् । = = [ औष्ट्र्पतम् ] उष्ट्रपतिनम वाहनं तस्येदम् = औष्ट्रपतम् । 'वाहनात्' (६।३।१७८) अञ्प्र० । 'वृद्धिः स्वरेष्वादेर्ज्जिति तद्धिते' (७४|१) वृ० औ 'अवर्णेवर्णस्य' (७|४|६८) इलोपः । सि-अम् । ञकारस्य वृद्धिः ‘ञिदार्षादणिञोः' (६।१।१४०) इति च प्रयोजनम् । [ याम्यः ] यम । यमस्यापत्यं वृद्धं = याम्यः । अनेन व्यप्र० । वृद्धिः । यामस्यापत्यं युवा । 'अत इञ् ' (६१ ३१) इञ्प्र० । 'विदार्षादणिज:' ( ६ १ १४० ) इति इबो लोपे याम्यः पिता पुत्रश्च ॥छ । बहिषष्टीकण च ॥ ६|१|१६|| [ बहिषः ] बहिस् पञ्चमी ङसि 'नाम्यन्तस्था'० (२|३|१५ ) पत्वम् | [ टीकण् ] टीकण् प्रथमा सि । [च] च प्रथमा सि । [ बाहीक : ] बहिर्जातः बाहीकः । अनेन टीकण्प्र० → ईक जातेऽर्थे, भवे तु 'यज्ञे ञ्यः' (६।३।१३४) इत्यधिकारे 'गम्भीर-पञ्चजन- बहिर्देवात् ' ( ६ |३|१३५) व्य एव स्यात् न टीकण, ज्योऽप्यत्र जात एव भवे तु सिद्धत्वात् । [बाह्यः] बहिर्जातः = बाह्यः । अनेन व्यप्र०य । 'प्रायो ऽव्ययस्य' (७|४|६५) इस्लोपः । ‘वृद्धिः स्वरेष्वादेर्ज्जिति तद्धिते' (७|४|१) वृ० आ । टकारो ङयर्थः । | [बाहीकी] बाहीक 'अणयेयेकन् नम् स्नञ्-टिताम्' (२२४२०) ङी 'अस्य ड्यां लुक्' (२२४१८६) अलुक् । णकारो णित्कार्यार्थः ॥
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy